🪷 Ṛgveda 1.22

Prathama-Maṇḍala · Sūkta 22

२१ मेधातिथिः काण्वः। १-४ अश्विनौ, ५-८ सविता, ९-१० अग्निः, ११ देव्यः, १२ इन्द्राणी वरुणान्यग्नाय्यः, १३-१४ द्यावापृथिव्यौ, १५ पृथिवी, १६ विष्णुर्देवा वा, १७-२१ विष्णुः। गायत्री। प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् । अ॒स्य सोम॑स्य पी॒तये॑ ॥१॥ या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ । अ॒श्विना॒ ता ह॑वामहे ॥२॥ या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् ॥३॥ न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः । अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥४॥ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥५॥ अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि । तस्य॑ व्र॒तान्यु॑श्मसि ॥६॥ वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥७॥ सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु न॑: । दाता॒ राधां॑सि शुम्भति ॥८॥ अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ । त्वष्टा॑रं॒ सोम॑पीतये ॥९॥ आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् । वरू॑त्रीं धि॒षणां॑ वह ॥१०॥॥ अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑: । अच्छि॑न्नपत्राः सचन्ताम् ॥११॥॥ इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ । अ॒ग्नायीं॒ सोम॑पीतये ॥१२॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥१३॥ तयो॒रिद् घृ॒तव॒त् पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑: । ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥१४॥ स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथ॑: ॥१५॥ अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥१६॥ इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ह्लमस्य पांसु॒रे ॥१७॥ त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न् ॥१८॥ विष्णो॒: कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒: सखा॑ ॥१९॥ तद् विष्णो॑: पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रय॑: । दि॒वी॑व॒ चक्षु॒रात॑तम् ॥२०॥॥ तद् विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒: समि॑न्धते । विष्णो॒र्यत् प॑र॒मं प॒दम् ॥२१॥॥
— Ṛgveda Maṇḍala 1 · Sūkta 22 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷