🪷 Ṛgveda 1.170

Prathama-Maṇḍala · Sūkta 170

(५) १,३,४ इन्द्रः, (४अगस्त्यो वा,) २,५ अगस्त्यो मैत्रावरुणिः । इन्द्रः। १बृहती, २-४ अनुष्टुप्, ५ त्रिष्टुप्। न नू॒नमस्ति॒ नो श्वः कस्तद् वे॑द॒ यदद्भु॑तम् । अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥१॥ किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ । तेभि॑: कल्पस्व साधु॒या मा न॑: स॒मर॑णे वधीः ॥२॥ किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे । वि॒द्मा हि ते॒ यथा॒ मनो॒ ऽस्मभ्य॒मिन्न दि॑त्ससि ॥३॥ अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः । तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥४॥ त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑: । इन्द्र॒ त्वं म॒रुद्भि॒: सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥५॥
— Ṛgveda Maṇḍala 1 · Sūkta 170 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷