🪷 Ṛgveda 1.145

Prathama-Maṇḍala · Sūkta 145

५ दीर्घतमा औचथ्यः। अग्निः। जगती, ५ त्रिष्टुप् । तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते । तस्मि॑न् त्सन्ति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टय॒: स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पति॑: ॥१॥ तमित् पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् । न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥२॥ तमिद् ग॑च्छन्ति जु॒ह्व १स्तमर्व॑ती॒र्विश्वा॒न्येक॑: शृणव॒द् वचां॑सि मे । पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नो ऽच्छि॑द्रोति॒: शिशु॒राद॑त्त॒ सं रभ॑: ॥३॥ उ॒प॒स्थायं॑ चरति॒ यत् स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः । अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये॑ मु॒दे यदीं॒ गच्छ॑न्त्युश॒तीर॑पिष्ठि॒तम् ॥४॥ स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि । व्य॑ब्रवीद् व॒युना॒ मर्त्ये॑भ्यो॒ ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥५॥
— Ṛgveda Maṇḍala 1 · Sūkta 145 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷