🪷 Mahābhārata · Virāṭa-Parva · Chapter 56

The Book of Virāṭa · Parva 4 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 4.56.1
वैशंपायन उवाच ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः
MBh 4.56.2
अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे
MBh 4.56.3
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे
MBh 4.56.4
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम दक्षिणेनाथ वामेन कतरेण स्विदस्यति इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः
MBh 4.56.5
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम्
MBh 4.56.6
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः
MBh 4.56.7
जयतः कौरवीं सेनामेकस्य मम धन्विनः शतं मार्गा भविष्यन्ति पावकस्येव कानने मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम्
MBh 4.56.8
असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः
MBh 4.56.9
अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च
MBh 4.56.10
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः
MBh 4.56.11
अहं पारे समुद्रस्य हिरण्यपुरमारुजम् जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम्
MBh 4.56.12
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् वनमादीपयिष्यामि कुरूणामस्त्रतेजसा
MBh 4.56.13
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः एकः संकालयिष्यामि वज्रपाणिरिवासुरान्
MBh 4.56.14
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान्
MBh 4.56.15
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम्
MBh 4.56.16
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः
MBh 4.56.17
तमायान्तं महाबाहुं जिगीषन्तं रणे परान् अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम्
MBh 4.56.18
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः
MBh 4.56.19
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन्
MBh 4.56.20
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे
MBh 4.56.21
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम्
MBh 4.56.22
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः
MBh 4.56.23
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः
MBh 4.56.24
ततस्तमपि कौन्तेयः शरेणानतपर्वणा ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात्
MBh 4.56.25
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे
MBh 4.56.26
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत्
MBh 4.56.27
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ अभिपत्य रथैरन्यैरपनीतौ पदानुगैः
MBh 4.56.28
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः किरीटमाली कौन्तेयो लब्धलक्षो महाबलः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.56local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷