🪷 Mahābhārata · Virāṭa-Parva · Chapter 36

The Book of Virāṭa · Parva 4 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 47 Shlokas

MBh 4.36.1
वैशंपायन उवाच स राजधान्या निर्याय वैराटिः पृथिवींजयः प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः
MBh 4.36.2
समवेतान्कुरून्यावज्जिगीषूनवजित्य वै गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम्
MBh 4.36.3
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ते हया नरसिंहेन चोदिता वातरंहसः आलिखन्त इवाकाशमूहुः काञ्चनमालिनः
MBh 4.36.4
नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् श्मशानमभितो गत्वा आससाद कुरूनथ
MBh 4.36.5
तदनीकं महत्तेषां विबभौ सागरस्वनम् सर्पमाणमिवाकाशे वनं बहुलपादपम्
MBh 4.36.6
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम
MBh 4.36.7
तदनीकं महद्दृष्ट्वा गजाश्वरथसंकुलम् कर्णदुर्योधनकृपैर्गुप्तं शांतनवेन च
MBh 4.36.8
द्रोणेन च सपुत्रेण महेष्वासेन धीमता हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत्
MBh 4.36.9
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम्
MBh 4.36.10
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे
MBh 4.36.11
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः
MBh 4.36.12
दुर्योधनस्तथा वीरो राजा च रथिनां वरः द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः
MBh 4.36.13
दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः हृषितानि च रोमाणि कश्मलं चागतं मम
MBh 4.36.14
वैशंपायन उवाच अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः परिदेवयते मन्दः सकाशे सव्यसाचिनः
MBh 4.36.15
त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम् सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः
MBh 4.36.16
सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे
MBh 4.36.17
अर्जुन उवाच भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः न च तावत्कृतं किंचित्परैः कर्म रणाजिरे
MBh 4.36.18
स्वयमेव च मामात्थ वह मां कौरवान्प्रति सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः
MBh 4.36.19
मध्यमामिषगृध्राणां कुरूणामाततायिनाम् नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम्
MBh 4.36.20
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे
MBh 4.36.21
न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च संगताः
MBh 4.36.22
अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति
MBh 4.36.23
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव
MBh 4.36.24
उत्तर उवाच कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे
MBh 4.36.25
वैशंपायन उवाच इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः
MBh 4.36.26
बृहन्नडोवाच नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम्
MBh 4.36.27
वैशंपायन उवाच एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् तमन्वधावद्धावन्तं राजपुत्रं धनंजयः दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी
MBh 4.36.28
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम्
MBh 4.36.29
तं शीघ्रमभिधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् क एष वेषप्रच्छन्नो भस्मनेव हुताशनः
MBh 4.36.30
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च
MBh 4.36.31
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात्
MBh 4.36.32
अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः एकः कोऽस्मानुपायायादन्यो लोके धनंजयात्
MBh 4.36.33
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे स एष किल निर्यातो बालभावान्न पौरुषात्
MBh 4.36.34
सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः
MBh 4.36.35
स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति तं नूनमेष धावन्तं जिघृक्षति धनंजयः
MBh 4.36.36
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत
MBh 4.36.37
उत्तरं तु प्रधावन्तमनुद्रुत्य धनंजयः गत्वा पदशतं तूर्णं केशपक्षे परामृशत्
MBh 4.36.38
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् बहुलं कृपणं चैव विराटस्य सुतस्तदा
MBh 4.36.39
शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान्
MBh 4.36.40
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे
MBh 4.36.41
वैशंपायन उवाच एवमादीनि वाक्यानि विलपन्तमचेतसम् प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत्
MBh 4.36.42
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः
MBh 4.36.43
प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः
MBh 4.36.44
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्
MBh 4.36.45
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह
MBh 4.36.46
एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ
MBh 4.36.47
तत एनं विचेष्टन्तमकामं भयपीडितम् रथमारोपयामास पार्थः प्रहरतां वरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 47 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.36local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷