🪷 Mahābhārata · Virāṭa-Parva · Chapter 22

The Book of Virāṭa · Parva 4 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 4.22.1
वैशंपायन उवाच तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः
MBh 4.22.2
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम्
MBh 4.22.3
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः
MBh 4.22.4
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम्
MBh 4.22.5
समवेतेषु सूतेषु तानुवाचोपकीचकः हन्यतां शीघ्रमसती यत्कृते कीचको हतः
MBh 4.22.6
अथ वा नेह हन्तव्या दह्यतां कामिना सह मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा
MBh 4.22.7
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि
MBh 4.22.8
पराक्रमं तु सूतानां मत्वा राजान्वमोदत सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते
MBh 4.22.9
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम्
MBh 4.22.10
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा
MBh 4.22.11
ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती
MBh 4.22.12
द्रौपद्युवाच जयो जयन्तो विजयो जयत्सेनो जयद्बलः ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्
MBh 4.22.13
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम्
MBh 4.22.14
रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्
MBh 4.22.15
वैशंपायन उवाच तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन्
MBh 4.22.16
भीमसेन उवाच अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते
MBh 4.22.17
वैशंपायन उवाच इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा
MBh 4.22.18
स भीमसेनः प्राकारादारुज्य तरसा द्रुमम् श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः
MBh 4.22.19
स तं वृक्षं दशव्यामं सस्कन्धविटपं बली प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः
MBh 4.22.20
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः भूमौ निपतिता वृक्षाः संघशस्तत्र शेरते
MBh 4.22.21
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् वित्रेसुः सर्वतः सूता विषादभयकम्पिताः
MBh 4.22.22
तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः परस्परमथोचुस्ते विषादभयकम्पिताः
MBh 4.22.23
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम्
MBh 4.22.24
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति
MBh 4.22.25
द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम्
MBh 4.22.26
तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः
MBh 4.22.27
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव अन्येनाहं गमिष्यामि विराटस्य महानसम्
MBh 4.22.28
पञ्चाधिकं शतं तच्च निहतं तत्र भारत महावनमिव छिन्नं शिश्ये विगलितद्रुमम्
MBh 4.22.29
एवं ते निहता राजञ्शतं पञ्च च कीचकाः स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम्
MBh 4.22.30
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः विस्मयं परमं गत्वा नोचुः किंचन भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.22local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷