🪷 Mahābhārata · Virāṭa-Parva · Chapter 11

The Book of Virāṭa · Parva 4 · 13 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 13 Shlokas

MBh 4.11.1
वैशंपायन उवाच अथापरोऽदृश्यत पाण्डवः प्रभु;र्विराटराज्ञस्तुरगान्समीक्षतः तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम्
MBh 4.11.2
स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट् ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः
MBh 4.11.3
अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा
MBh 4.11.4
अभ्येत्य राजानममित्रहाब्रवी;ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम्
MBh 4.11.5
विराट उवाच ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत्
MBh 4.11.6
नकुल उवाच पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन
MBh 4.11.7
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम्
MBh 4.11.8
न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः
MBh 4.11.9
विराट उवाच यदस्ति किंचिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै ये चापि केचिन्मम वाजियोजका;स्त्वदाश्रयाः सारथयश्च सन्तु मे
MBh 4.11.10
इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम
MBh 4.11.11
युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम् कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः
MBh 4.11.12
वैशंपायन उवाच तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः न चैनमन्येऽपि विदुः कथंचन; प्रियाभिरामं विचरन्तमन्तरा
MBh 4.11.13
एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 13 source-pinned Devanāgarī addresses to Virāṭa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 4.11local chapter route · Virāṭa-ParvaVirāṭa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷