🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 96

The Book of the Forest · Parva 3 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 3.96.1
लोमश उवाच ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः
MBh 3.96.2
स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम्
MBh 3.96.3
तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम्
MBh 3.96.4
अगस्त्य उवाच वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे
MBh 3.96.5
लोमश उवाच तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे
MBh 3.96.6
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः सर्वथा प्राणिनां पीडामुपादानादमन्यत
MBh 3.96.7
स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि
MBh 3.96.8
तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे
MBh 3.96.9
अगस्त्य उवाच वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ
MBh 3.96.10
लोमश उवाच तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते
MBh 3.96.11
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः सर्वथा प्राणिनां पीडामुपादानादमन्यत
MBh 3.96.12
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः
MBh 3.96.13
त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि अभिगम्य महाराज विषयान्ते सवाहनः
MBh 3.96.14
अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे
MBh 3.96.15
अगस्त्य उवाच वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः
MBh 3.96.16
लोमश उवाच तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते
MBh 3.96.17
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः सर्वथा प्राणिनां पीडामुपादानादमन्यत
MBh 3.96.18
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् इदमूचुर्महाराज समवेक्ष्य परस्परम्
MBh 3.96.19
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु
MBh 3.96.20
तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् ततस्ते सहिता राजन्निल्वलं समुपाद्रवन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.96local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷