🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 61
The Book of the Forest · Parva 3 · 125 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 125 Shlokas
MBh 3.61.1
बृहदश्व उवाच
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्
MBh 3.61.2
सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम्
नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्
MBh 3.61.3
शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः
अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः
MBh 3.61.4
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्
काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम्
MBh 3.61.5
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्
प्रियालतालखर्जूरहरीतकबिभीतकैः
MBh 3.61.6
नानाधातुशतैर्नद्धान्विविधानपि चाचलान्
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः
नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान्
MBh 3.61.7
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्
पल्वलानि तडागानि गिरिकूटानि सर्वशः
सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान्
MBh 3.61.8
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान्
MBh 3.61.9
तेजसा यशसा स्थित्या श्रिया च परया युता
वैदर्भी विचरत्येका नलमन्वेषती तदा
MBh 3.61.10
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता
MBh 3.61.11
विदर्भतनया राजन्विललाप सुदुःखिता
भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता
MBh 3.61.12
दमयन्त्युवाच
सिंहोरस्क महाबाहो निषधानां जनाधिप
क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने
MBh 3.61.13
अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे
MBh 3.61.14
यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ
MBh 3.61.15
यथोक्तं विहगैर्हंसैः समीपे तव भूमिप
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि
MBh 3.61.16
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः
स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः
MBh 3.61.17
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः
MBh 3.61.18
हा वीर ननु नामाहमिष्टा किल तवानघ
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे
MBh 3.61.19
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः
अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि
MBh 3.61.20
न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप
MBh 3.61.21
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप
ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे
MBh 3.61.22
कृशां दीनां विवर्णां च मलिनां वसुधाधिप
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्
MBh 3.61.23
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन
न मानयसि मानार्ह रुदतीमरिकर्शन
MBh 3.61.24
महाराज महारण्ये मामिहैकाकिनीं सतीम्
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे
MBh 3.61.25
कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम्
नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते
MBh 3.61.26
शयानमुपविष्टं वा स्थितं वा निषधाधिप
प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन
MBh 3.61.27
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता
कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः
MBh 3.61.28
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम्
अभिरूपं महात्मानं परव्यूहविनाशनम्
MBh 3.61.29
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्
MBh 3.61.30
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः
शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता
MBh 3.61.31
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः
विदर्भराजतनयां दमयन्तीति विद्धि माम्
MBh 3.61.32
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम्
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः
MBh 3.61.33
अथ वारण्यनृपते नलं यदि न शंससि
मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम्
MBh 3.61.34
श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम्
यात्येतां मृष्टसलिलामापगां सागरंगमाम्
MBh 3.61.35
इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः
विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः
MBh 3.61.36
नानाधातुसमाकीर्णं विविधोपलभूषितम्
अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम्
MBh 3.61.37
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्
पतत्रिभिर्बहुविधैः समन्तादनुनादितम्
MBh 3.61.38
किंशुकाशोकबकुलपुंनागैरुपशोभितम्
सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम्
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति
MBh 3.61.39
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर
MBh 3.61.40
प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम्
राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम्
MBh 3.61.41
राजा विदर्भाधिपतिः पिता मम महारथः
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता
MBh 3.61.42
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः
MBh 3.61.43
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः
शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः
MBh 3.61.44
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्
MBh 3.61.45
निषधेषु महाशैल श्वशुरो मे नृपोत्तमः
सुगृहीतनामा विख्यातो वीरसेन इति स्म ह
MBh 3.61.46
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह
MBh 3.61.47
नलो नामारिदमनः पुण्यश्लोक इति श्रुतः
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित्
MBh 3.61.48
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम्
MBh 3.61.49
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्
अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम्
MBh 3.61.50
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः
MBh 3.61.51
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः
विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः
MBh 3.61.52
किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम्
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्
MBh 3.61.53
वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना
MBh 3.61.54
कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम्
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्
MBh 3.61.55
वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः
आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम्
MBh 3.61.56
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी
दमयन्ती ततो भूयो जगाम दिशमुत्तराम्
MBh 3.61.57
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना
तापसारण्यमतुलं दिव्यकाननदर्शनम्
MBh 3.61.58
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्
नियतैः संयताहारैर्दमशौचसमन्वितैः
MBh 3.61.59
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः
MBh 3.61.60
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्
MBh 3.61.61
सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम्
शाखामृगगणैश्चैव तापसैश्च समन्वितम्
MBh 3.61.62
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना
वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी
MBh 3.61.63
सा विवेशाश्रमपदं वीरसेनसुतप्रिया
योषिद्रत्नं महाभागा दमयन्ती मनस्विनी
MBh 3.61.64
साभिवाद्य तपोवृद्धान्विनयावनता स्थिता
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा
MBh 3.61.65
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे
MBh 3.61.66
तानुवाच वरारोहा कच्चिद्भगवतामिह
तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः
कुशलं वो महाभागाः स्वधर्मचरणेषु च
MBh 3.61.67
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी
ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि
MBh 3.61.68
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः
MBh 3.61.69
अस्यारण्यस्य महती देवता वा महीभृतः
अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते
MBh 3.61.70
साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता
न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम्
MBh 3.61.71
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः
MBh 3.61.72
विदर्भेषु महीपालो भीमो नाम महाद्युतिः
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः
MBh 3.61.73
निषधाधिपतिर्धीमान्नलो नाम महायशाः
वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः
MBh 3.61.74
देवताभ्यर्चनपरो द्विजातिजनवत्सलः
गोप्ता निषधवंशस्य महाभागो महाद्युतिः
MBh 3.61.75
सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः
MBh 3.61.76
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा
MBh 3.61.77
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः
सपत्नानां मृधे हन्ता रविसोमसमप्रभः
MBh 3.61.78
स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः
आहूय पृथिवीपालः सत्यधर्मपरायणः
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च
MBh 3.61.79
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै
दमयन्तीति विख्यातां भर्तृदर्शनलालसाम्
MBh 3.61.80
सा वनानि गिरींश्चैव सरांसि सरितस्तथा
पल्वलानि च रम्याणि तथारण्यानि सर्वशः
MBh 3.61.81
अन्वेषमाणा भर्तारं नलं रणविशारदम्
महात्मानं कृतास्त्रं च विचरामीह दुःखिता
MBh 3.61.82
कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः
MBh 3.61.83
यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम्
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्
MBh 3.61.84
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्
MBh 3.61.85
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता
MBh 3.61.86
एवं विलपतीमेकामरण्ये भीमनन्दिनीम्
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः
MBh 3.61.87
उदर्कस्तव कल्याणि कल्याणो भविता शुभे
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्
MBh 3.61.88
निषधानामधिपतिं नलं रिपुनिघातिनम्
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्
MBh 3.61.89
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्
तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम्
MBh 3.61.90
द्विषतां भयकर्तारं सुहृदां शोकनाशनम्
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्
MBh 3.61.91
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा
MBh 3.61.92
सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा
MBh 3.61.93
किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत्
क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम्
MBh 3.61.94
क्व सा पुण्यजला रम्या नानाद्विजनिषेविता
नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः
MBh 3.61.95
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता
भर्तृशोकपरा दीना विवर्णवदनाभवत्
MBh 3.61.96
सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा
विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः
MBh 3.61.97
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा
पल्लवापीडितं हृद्यं विहंगैरनुनादितम्
MBh 3.61.98
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे
आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव
MBh 3.61.99
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्
MBh 3.61.100
नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्
निषधानामधिपतिं दृष्टवानसि मे प्रियम्
MBh 3.61.101
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्
व्यसनेनार्दितं वीरमरण्यमिदमागतम्
MBh 3.61.102
यथा विशोका गच्छेयमशोकनग तत्कुरु
सत्यनामा भवाशोक मम शोकविनाशनात्
MBh 3.61.103
एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह
जगाम दारुणतरं देशं भैमी वराङ्गना
MBh 3.61.104
सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः
MBh 3.61.105
कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान्
ददर्श सा भीमसुता पतिमन्वेषती तदा
MBh 3.61.106
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्
MBh 3.61.107
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्
MBh 3.61.108
प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्
कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम्
MBh 3.61.109
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी
उपसर्प्य वरारोहा जनमध्यं विवेश ह
MBh 3.61.110
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा
MBh 3.61.111
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः
केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः
MBh 3.61.112
प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे
चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत
MBh 3.61.113
कासि कस्यासि कल्याणि किं वा मृगयसे वने
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी
MBh 3.61.114
वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः
MBh 3.61.115
यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना
सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते
MBh 3.61.116
यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्
तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः
MBh 3.61.117
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा
प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता
सार्थवाहं च सार्थं च जना ये चात्र केचन
MBh 3.61.118
यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्
MBh 3.61.119
विदर्भराण्मम पिता भर्ता राजा च नैषधः
नलो नाम महाभागस्तं मार्गाम्यपराजितम्
MBh 3.61.120
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्
नलं पार्थिवशार्दूलममित्रगणसूदनम्
MBh 3.61.121
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः
MBh 3.61.122
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते
मनुष्यं नलनामानं न पश्यामि यशस्विनि
MBh 3.61.123
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि
पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु
MBh 3.61.124
साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः
क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ
MBh 3.61.125
सार्थवाह उवाच
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 60
- Next chapter · Vana-Parva (Āraṇyaka) Ch 62 →
Sources and Connected Readings
Continue from these 125 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.61local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷