🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 6

The Book of the Forest · Parva 3 · 22 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 22 Shlokas

MBh 3.6.1
[व] पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः
MBh 3.6.2
सरस्वती दृषद्वत्यौ यमुनां च निषेव्य ते ययुर वनेनैव वनं सततं पश्चिमां दिशम
MBh 3.6.3
ततः सरस्वती कूले समेषु मरु धन्वसु काम्यकं नाम ददृशुर वनं मुनिजनप्रियम
MBh 3.6.4
तत्र ते नयवसन वीरा वने बहुमृगद्विजे अन्वास्यमाना मुनिभिः सान्त्व्यमानाश च भारत
MBh 3.6.5
विदुरस तव अपि पाण्डूनां तदा दर्शनलालसः जगामैक रथेनैव काम्यकं वनम ऋद्धिवत
MBh 3.6.6
ततॊ यात्वा विदुरः काननं तच; छीघ्रैर अश्वैर वाहिना सयन्दनेन ददर्शासीनं धर्मराजं विविक्ते; सार्धं दरौपद्या भरातृभिर बराह्मणैश च
MBh 3.6.7
ततॊ ऽपश्यद विदुरं तूर्णम आराद; अभ्यायान्तं सत्यसंधः स राजा अथाब्रवीद भरातरं भीमसेनं; किं नु कषत्ता वक्ष्यति नः समेत्य
MBh 3.6.8
कच चिन नायं वचनात सौबलस्य; समाह्वाता देवनायॊपयाति कच चित कषुद्रः शकुनिर नायुधानि; जेष्यत्य अस्मान्पुनर एवाक्षवत्याम
MBh 3.6.9
समाहूतः केन चिद आद्रवेति; नाहं शक्तॊ भीमसेनापयातुम गाण्डीवे वा संशयिते कथं चिद; राज्यप्राप्तिः संशयिता भवेन नः
MBh 3.6.10
तत उत्थाय विदुरं पाण्डवेयाः; परत्यगृह्णन नृपते सर्व एव तैः सत्कृतः स च तान आजमीढॊ; यथॊचितं पाण्डुपुत्रान समेयात
MBh 3.6.11
समाश्वस्तं विदुरं ते नरर्षभास; ततॊ ऽपृच्छन्न आगमनाय हेतुम स चापि तेभ्यॊ विस्तरतः शशंस; यथावृत्तॊ धृतराष्ट्रॊ ऽऽमबिकेयः
MBh 3.6.12
[वि] अवॊचन मां धृतराष्ट्रॊ ऽनुगुप्तम; अजातशत्रॊ परिगृह्याभिपूज्य एवंगते समताम अब्भ्युपेत्य; पथ्यं तेषां मम चैव बरवीहि
MBh 3.6.13
मयाप्य उक्तं यत कषमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव तद वै पथ्यं तन मनॊ नाभ्युपैति; ततश चाहं कषमम अन्यन न मन्ये
MBh 3.6.14
परं शरेयः पाण्डवेया मयॊक्तं; न मे तच च शरुतवान आम्बिकेयः यथातुरस्येव हि पथ्यम अन्नं; न रॊचते समास्य तद उच्यमानम
MBh 3.6.15
न शरेयसे नीयते ऽजातशत्रॊ; सत्री शरॊत्रियस्येव गृहे परदुष्टा बरुवन न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः
MBh 3.6.16
धरुवं विनाशॊ नृप कौरवाणां; न वै शरेयॊ धृतराष्ट्रः परैति यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत पथ्यम उक्तं तथास्मिन
MBh 3.6.17
ततः करुद्धॊ धृतराष्ट्रॊ ऽबरवीन मां; यत्र शरद्धा भारत तत्र याहि नाहं भूयः कामये तवां सहायं; महीम इमां पालयितुं पुरं वा
MBh 3.6.18
सॊ ऽहं तयक्तॊ धृतराष्ट्रेण राजंस; तवां शासितुम उपयातस तवरावान तद वै सर्वं यन मयॊक्तं सभायां; तद धार्यतां यत परवक्ष्यामि भूयः
MBh 3.6.19
कलेशैस तीव्रैर युज्यमानः सपत्नैः; कषमां कुर्वन कालम उपासते यः सं वर्धयन सतॊकम इवाग्निम आत्मवान; स वै भुङ्क्ते पृथिवीम एक एव
MBh 3.6.20
यस्याविभक्तं वसु राजन सहायैस; तस्य दुःखे ऽपय अंशभाजः सहायाः सहायानाम एष संग्रहणे ऽभयुपायः; सहायाप्तौ पृथिवी पराप्तिम आहुः
MBh 3.6.21
सत्यं शरेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भॊज्यं सहायैः आत्मा चैषाम अग्रतॊ नातिवर्तेद; एवंवृत्तिर वर्धते भूमिपालः
MBh 3.6.22
[य] एवं करिष्यामि यथा बरवीषि; परां बुद्धिम उपगम्याप्रमत्तः यच चाप्य अन्यद देशकालॊपपन्नं; तद वै वाच्यं तत करिष्यामि कृत्स्नम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷