🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 57

The Book of the Forest · Parva 3 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 3.57.1
बृहदश्व उवाच दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् उन्मत्तवदनुन्मत्ता देवने गतचेतसम्
MBh 3.57.2
भयशोकसमाविष्टा राजन्भीमसुता ततः चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति
MBh 3.57.3
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्
MBh 3.57.4
बृहत्सेने व्रजामात्यानानाय्य नलशासनात् आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु
MBh 3.57.5
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन्
MBh 3.57.6
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत
MBh 3.57.7
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह
MBh 3.57.8
निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह
MBh 3.57.9
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् सूतमानय कल्याणि महत्कार्यमुपस्थितम्
MBh 3.57.10
बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः
MBh 3.57.11
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा उवाच देशकालज्ञा प्राप्तकालमनिन्दिता
MBh 3.57.12
जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि
MBh 3.57.13
यथा यथा हि नृपतिः पुष्करेणेह जीयते तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते
MBh 3.57.14
यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते
MBh 3.57.15
सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः
MBh 3.57.16
यत्र मे वचनं राजा नाभिनन्दति मोहितः शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः न हि मे शुध्यते भावः कदाचिद्विनशेदिति
MBh 3.57.17
नलस्य दयितानश्वान्योजयित्वा महाजवान् इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि
MBh 3.57.18
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा
MBh 3.57.19
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः न्यवेदयदशेषेण नलामात्येषु मुख्यशः
MBh 3.57.20
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना
MBh 3.57.21
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्
MBh 3.57.22
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् अटमानस्ततोऽयोध्यां जगाम नगरीं तदा
MBh 3.57.23
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः भृतिं चोपययौ तस्य सारथ्येन महीपते

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.57local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷