🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 46
The Book of the Forest · Parva 3 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 3.46.1
जनमेजय उवाच
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः
धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत्
MBh 3.46.2
वैशंपायन उवाच
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः
द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत्
MBh 3.46.3
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः
कच्चित्तवापि विदितं यथातथ्येन सारथे
MBh 3.46.4
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति
MBh 3.46.5
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः
MBh 3.46.6
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः
MBh 3.46.7
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम्
MBh 3.46.8
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी
MBh 3.46.9
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे
महान्स्यात्संशयो लोके न तु पश्यामि नो जयम्
MBh 3.46.10
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः
MBh 3.46.11
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम्
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः
MBh 3.46.12
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः
वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा
MBh 3.46.13
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः
MBh 3.46.14
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ
MBh 3.46.15
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजय
न तु कुर्युः शराः शेषमस्तास्तात किरीटिना
MBh 3.46.16
यथा हि किरणा भानोस्तपन्तीह चराचरम्
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान्
MBh 3.46.17
अपि वा रथघोषेण भयार्ता सव्यसाचिनः
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः
MBh 3.46.18
यदुद्वपन्प्रवपंश्चैव बाणा;न्स्थाताततायी समरे किरीटी
सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः
MBh 3.46.19
संजय उवाच
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति
सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते
MBh 3.46.20
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम्
MBh 3.46.21
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः
MBh 3.46.22
श्रुतं हि ते महाराज यथा पार्थेन संयुगे
एकादशतनुः स्थाणुर्धनुषा परितोषितः
MBh 3.46.23
कैरातं वेषमास्थाय योधयामास फल्गुनम्
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम्
MBh 3.46.24
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्
MBh 3.46.25
नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात्
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि
MBh 3.46.26
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्
कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान्
MBh 3.46.27
आसादितमिदं घोरं तुमुलं लोमहर्षणम्
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान्
MBh 3.46.28
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत्
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ
MBh 3.46.29
ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः
MBh 3.46.30
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः
MBh 3.46.31
मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः
MBh 3.46.32
धृतराष्ट्र उवाच
किं कृतं सूत कर्णेन वदता परुषं वचः
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता
MBh 3.46.33
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते
MBh 3.46.34
ममापि वचनं सूत न शुश्रूषति मन्दभाक्
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम्
MBh 3.46.35
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः
तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः
MBh 3.46.36
स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा
निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः
MBh 3.46.37
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि
MBh 3.46.38
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम्
MBh 3.46.39
इदं च सुमहच्चित्रमर्जुनस्येह संजय
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः
MBh 3.46.40
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च
MBh 3.46.41
सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 45
- Next chapter · Vana-Parva (Āraṇyaka) Ch 47 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.46local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷