🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 35

The Book of the Forest · Parva 3 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 3.35.1
युधिष्ठिर उवाच असंशयं भारत सत्यमेत;द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि न त्वा विगर्हे प्रतिकूलमेत;न्ममानयाद्धि व्यसनं व आगात्
MBh 3.35.2
अहं ह्यक्षानन्वपद्यं जिहीर्ष;न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् तन्मा शठः कितवः प्रत्यदेवी;त्सुयोधनार्थं सुबलस्य पुत्रः
MBh 3.35.3
महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान् अमायिनं मायया प्रत्यदेवी;त्ततोऽपश्यं वृजिनं भीमसेन
MBh 3.35.4
अक्षान्हि दृष्ट्वा शकुनेर्यथाव;त्कामानुलोमानयुजो युजश्च शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम्
MBh 3.35.5
यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत्
MBh 3.35.6
स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन् दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः
MBh 3.35.7
त्वं चापि तद्वेत्थ धनंजयश्च; पुनर्द्यूतायागतानां सभां नः यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम्
MBh 3.35.8
वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः
MBh 3.35.9
त्वां चेच्छ्रुत्वा तात तथा चरन्त;मवभोत्स्यन्ते भारतानां चराः स्म अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ
MBh 3.35.10
चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान् ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः
MBh 3.35.11
वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान् वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति
MBh 3.35.12
तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे इत्थं च देशाननुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः
MBh 3.35.13
सुयोधनश्चापि न शान्तिमिच्छ;न्भूयः स मन्योर्वशमन्वगच्छत् उद्योजयामास कुरूंश्च सर्वा;न्ये चास्य केचिद्वशमन्वगच्छन्
MBh 3.35.14
तं संधिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात्
MBh 3.35.15
तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत्
MBh 3.35.16
प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः प्राप्तं तु कालं त्वभिपद्य पश्चा;त्किं मामिदानीमतिवेलमात्थ
MBh 3.35.17
भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम
MBh 3.35.18
न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः
MBh 3.35.19
यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके
MBh 3.35.20
श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम्
MBh 3.35.21
मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.35local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷