🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 296
The Book of the Forest · Parva 3 · 43 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 3.296local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 43 Shlokas
MBh 3.296.1
[य]
नापदाम अस्ति मर्यादा न निमित्तं न कारणम
धर्मस तु विभजत्य अत्र उभयॊः पुण्यपापयॊः
MBh 3.296.2
[भीम]
परातिकाम्य अनयत कृष्णां सभायां परेष्यवत तदा
न मया निहतस तत्र तेन पराप्ताः सम संशयम
MBh 3.296.3
[अर्ज]
वाचस तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः
अतितीक्ष्णा मया कषान्तास तेन पराप्तः सम संशयम
MBh 3.296.4
[सहदेव]
शकुनिस तवां यदाजैषीद अक्षद्यूतेन भारत
स मया न हतस तत्र तेन पराप्ताः सम संशयम
MBh 3.296.5
[वै]
ततॊ युधिष्ठिरॊ राजा नकुलं वाक्यम अब्रवीत
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशॊ दश
MBh 3.296.6
पानीयम अन्तिके पश्य वृक्षान वाप्य उदकाश्रयान
इमे हि भरातरः शरान्तास तव तात पिपासिताः
MBh 3.296.7
नकुलस तु तथेत्य उक्त्वा शीघ्रम आरुह्य पादमम
अब्रवीद भरातरं जयेष्ठम अभिवीक्ष्य समन्ततः
MBh 3.296.8
पश्यामि बहुलान राजन वृक्षान उदकसंश्रयान
सारसानां च निर्ह्रादम अत्रॊदकम असंशयम
MBh 3.296.9
ततॊ ऽबरवीत सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयम आनय
MBh 3.296.10
नकुलस तु तथेत्य उक्त्वा भरातुर जयेष्ठस्य शासनात
पराद्रवद यत्र पानीयं शीघ्रं चैवान्वपद्यत
MBh 3.296.11
स दृष्ट्वा विमलं तॊयं सारसैः परिवारितम
पातु काकस ततॊ वाचम अन्तरिक्षात स शुश्रुवे
MBh 3.296.12
मा तात साहसं कार्षीर मम पूर्वपरिग्रहः
परश्नान उक्त्वा तु माद्रेय ततः पिब हरस्व च
MBh 3.296.13
अनादृत्य तु तद वाक्यं नकुलः सुपिपासितः
अपिबच छीतलं तॊयं पीत्वा च निपपात ह
MBh 3.296.14
चिरायमाणे नकुले कुन्तीपुत्रॊ युधिष्ठिरः
अब्रवीद भरातरं वीरं सहदेवम अरिंदमम
MBh 3.296.15
भराता चिरायते तात सहदेव तवाग्रजः
तं चैवानय सॊदर्यं पानीयं च तवम आनय
MBh 3.296.16
सहदेवस तथेत्य उक्त्वा तां दिशं परत्यपद्यत
ददर्श च हतं भूमौ भरातरं नकुलं तदा
MBh 3.296.17
भरातृशॊकाभिसंतप्तस तृषया च परपीडितः
अभिदुद्राव पानीयं ततॊ वाग अभ्यभाषत
MBh 3.296.18
मा तात साहसं कार्षीर मम पूर्वपरिग्रहः
परश्नान उक्त्वा यथाकामं ततः पिब हरस्व च
MBh 3.296.19
अनादृत्य तु तद वाक्यं सहदेवः पिपासितः
अपिबच छीतलं तॊयं पीत्वा च निपपात ह
MBh 3.296.20
अथाब्रवीत स विजयं कुन्तीपुत्रॊ युधिष्ठिरः
भरातरौ ते चिरगतौ बीभत्सॊ शत्रुकर्शन
तौ चैवानय भद्रं ते पानीयं च तवम आनय
MBh 3.296.21
एवम उक्तॊ गुडाकेशः परगृह्य सशरं धनुः
आमुक्तखड्गॊ मेधावी तत सरॊ परत्यपद्यत
MBh 3.296.22
यतः पुरुषशार्दूलौ पानीय हरणे गतु
तौ ददर्श हतौ तत्र भरातरौ शवेतवाहनः
MBh 3.296.23
परसुप्ताव इव तौ दृष्ट्वा नरसिंहः सुदुःखितः
धनुर उद्यम्य कौन्तेयॊ वयलॊकयत तद वनम
MBh 3.296.24
नापश्यत तत्र किं चित स भूतं तस्मिन महावने
सव्यसाची ततः शरान्तः पानीयं सॊ ऽभयधावत
MBh 3.296.25
अभिधावंस ततॊ वाचम अन्तरिक्षात स शुश्रुवे
किम आसीद असि पानीयं नैतच छक्यं बलात तवया
MBh 3.296.26
कौन्तेय यदि वै परश्नान मयॊक्तान परतिपत्स्यसे
ततः पास्यसि पानीयं हरिष्यसि च भारत
MBh 3.296.27
वारितस तव अब्रवीत पार्थॊ दृश्यमानॊ निवारय
यावद बाणैर विनिर्भिन्नः पुनर नैवं वदिष्यसि
MBh 3.296.28
एवम उक्त्वा ततः पार्थः शरैर अस्त्रानुमन्त्रितैः
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन
MBh 3.296.29
कर्णिनालीकनाराचान उत्सृजन भरतर्षभ
अनेकैर इषुसंघातैर अन्तरिक्षं ववर्ष ह
MBh 3.296.30
[यक्स]
किं विघातेन ते पार्थ परश्नान उक्त्वा ततः पिब
अनुक्त्वा तु ततः परश्नान पीत्वैव न भविष्यसि
MBh 3.296.31
[वै]
स तव अमॊघान इषून मुक्त्वा तृष्णयाभिप्रपीडितः
अविज्ञायैव तान परश्नान पीत्वैव निपपात ह
MBh 3.296.32
अथाब्रवीद भीमसेनं कुन्तीपुत्रॊ युधिष्ठिरः
नकुलः सहदेवश च बीभत्सुश चापराजितः
MBh 3.296.33
चिरं गतास तॊयहेतॊर न चागच्छन्ति भारत
तांश चैवानय भद्रं ते पानीयं च तवम आनय
MBh 3.296.34
भीमसेनस तथेत्य उक्त्वा तां दिशं पत्यपद्यत
यत्र ते पुरुषव्याघ्रा भरातरॊ ऽसय निपातिताः
MBh 3.296.35
तान दृष्ट्वा दुःखितॊ भीमस तृषया च परपीडितः
अमन्यत महाबाहुः कर्म तद यक्षरक्षसाम
स चिन्तयाम आस तदा यॊद्धव्यं धरुवम अद्य मे
MBh 3.296.36
पास्यामि तावत पानीयम इति पार्थॊ वृकॊदरः
ततॊ ऽभयधावत पानीयं पिपासुः पुरुषर्षभः
MBh 3.296.37
[यक्स]
मा तात साहसं कार्षीर मम पूर्वपरिग्रहः
परश्नान उक्त्वा तु कौन्तेय ततः पिब हरस्व च
MBh 3.296.38
[वै]
एवम उक्तस ततॊ भीमॊ यक्षेणामित तेजसा
अविज्ञायैव तान परश्नान पीत्वैव निपपात ह
MBh 3.296.39
ततः कुन्तीसुतॊ राजा विचिन्त्य पुरुषर्षभः
समुत्थाय महाबाहुर दह्यमानेन चेतसा
MBh 3.296.40
अपेतजननिर्घॊषं परविवेश महावनम
रुरुभिश च वराहैश च पक्षिभिश च निषेवितम
MBh 3.296.41
नीलभास्वरवर्णैश च पादपैर उपशॊभितम
भरमरैर उपगीतं च पक्षिभिश च महायशः
MBh 3.296.42
स गच्छन कानने तस्मिन हेमजालपरिष्कृतम
ददर्श तत सरॊ शरीमान विश्वकर्म कृतं यथा
MBh 3.296.43
उपेतं नलिनी जालैः सिन्धुवारैश च वेतसैः
केतकैः करवीरैश च पिप्पलैश चैव संवृतम
शरमार्तस तद उपागम्य सरॊ दृष्ट्वाथ विस्मितः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 295
- Next chapter · Vana-Parva (Āraṇyaka) Ch 297 →
🪷 जय व्यास भगवान् 🪷