🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 294

The Book of the Forest · Parva 3 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 43 Shlokas

MBh 3.294.1
वैशंपायन उवाच देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम्
MBh 3.294.2
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् किं ददानीति तं विप्रमुवाचाधिरथिस्ततः
MBh 3.294.3
ब्राह्मण उवाच हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम्
MBh 3.294.4
यदेतत्सहजं वर्म कुण्डले च तवानघ एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्
MBh 3.294.5
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप एष मे सर्वलाभानां लाभः परमको मतः
MBh 3.294.6
कर्ण उवाच अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले
MBh 3.294.7
वैशंपायन उवाच एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत
MBh 3.294.8
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम्
MBh 3.294.9
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव
MBh 3.294.10
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम्
MBh 3.294.11
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव
MBh 3.294.12
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च गमनीयो भविष्यामि शत्रूणां द्विजसत्तम
MBh 3.294.13
यदा नान्यं वरं वव्रे भगवान्पाकशासनः ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः
MBh 3.294.14
विदितो देवदेवेश प्रागेवासि मम प्रभो न तु न्याय्यं मया दातुं तव शक्र वृथा वरम्
MBh 3.294.15
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत्
MBh 3.294.16
यदि दास्यामि ते देव कुण्डले कवचं तथा वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्
MBh 3.294.17
तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् हरस्व शक्र कामं मे न दद्यामहमन्यथा
MBh 3.294.18
शक्र उवाच विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् तेन ते सर्वमाख्यातमेवमेतन्न संशयः
MBh 3.294.19
काममस्तु तथा तात तव कर्ण यथेच्छसि वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि
MBh 3.294.20
वैशंपायन उवाच ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् अमोघां शक्तिमभ्येत्य वव्रे संपूर्णमानसः
MBh 3.294.21
कर्ण उवाच वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव अमोघां शत्रुसंघानां घातनीं पृतनामुखे
MBh 3.294.22
वैशंपायन उवाच ततः संचिन्त्य मनसा मुहूर्तमिव वासवः शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्
MBh 3.294.23
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् गृहाण कर्ण शक्तिं त्वमनेन समयेन मे
MBh 3.294.24
अमोघा हन्ति शतशः शत्रून्मम करच्युता पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः
MBh 3.294.25
सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज
MBh 3.294.26
कर्ण उवाच एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्
MBh 3.294.27
इन्द्र उवाच एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना
MBh 3.294.28
यमाहुर्वेदविद्वांसो वराहमजितं हरिम् नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते
MBh 3.294.29
कर्ण उवाच एवमप्यस्तु भगवन्नेकवीरवधे मम अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम्
MBh 3.294.30
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत्
MBh 3.294.31
इन्द्र उवाच न ते बीभत्सता कर्ण भविष्यति कथंचन व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि
MBh 3.294.32
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः
MBh 3.294.33
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति
MBh 3.294.34
कर्ण उवाच संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते
MBh 3.294.35
वैशंपायन उवाच ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत
MBh 3.294.36
ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम् दृष्ट्वा सर्वे सिद्धसंघाश्च नेदु;र्न ह्यस्यासीद्दुःखजो वै विकारः
MBh 3.294.37
ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम् दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम्
MBh 3.294.38
ततश्छित्त्वा कवचं दिव्यमङ्गा;त्तथैवार्द्रं प्रददौ वासवाय तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः
MBh 3.294.39
ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात
MBh 3.294.40
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन् तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः
MBh 3.294.41
जनमेजय उवाच क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु
MBh 3.294.42
वैशंपायन उवाच लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण
MBh 3.294.43
प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 43 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.294local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷