🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 290

The Book of the Forest · Parva 3 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 3.290.1
वैशंपायन उवाच गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्
MBh 3.290.2
अयं वै कीदृशस्तेन मम दत्तो महात्मना मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव
MBh 3.290.3
एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया व्रीडिता साभवद्बाला कन्याभावे रजस्वला
MBh 3.290.4
अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह न ततर्प च रूपेण भानोः संध्यागतस्य सा
MBh 3.290.5
तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्
MBh 3.290.6
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप आह्वानमकरोत्साथ तस्य देवस्य भामिनी
MBh 3.290.7
प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् आजगाम ततो राजंस्त्वरमाणो दिवाकरः
MBh 3.290.8
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव
MBh 3.290.9
योगात्कृत्वा द्विधात्मानमाजगाम तताप च आबभाषे ततः कुन्तीं साम्ना परमवल्गुना
MBh 3.290.10
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते
MBh 3.290.11
कुन्त्युवाच गम्यतां भगवंस्तत्र यतोऽसि समुपागतः कौतूहलात्समाहूतः प्रसीद भगवन्निति
MBh 3.290.12
सूर्य उवाच गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा
MBh 3.290.13
तवाभिसंधिः सुभगे सूर्यात्पुत्रो भवेदिति वीर्येणाप्रतिमो लोके कवची कुण्डलीति च
MBh 3.290.14
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने
MBh 3.290.15
अथ गच्छाम्यहं भद्रे त्वयासंगम्य सुस्मिते शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते
MBh 3.290.16
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः पितरं चैव ते मूढं यो न वेत्ति तवानयम्
MBh 3.290.17
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव शीलवृत्तमविज्ञाय धास्यामि विनयं परम्
MBh 3.290.18
एते हि विबुधाः सर्वे पुरंदरमुखा दिवि त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि
MBh 3.290.19
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्
MBh 3.290.20
वैशंपायन उवाच ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान् प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव
MBh 3.290.21
सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः
MBh 3.290.22
पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा
MBh 3.290.23
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो
MBh 3.290.24
सूर्य उवाच बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु
MBh 3.290.25
न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे
MBh 3.290.26
सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.290local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷