🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 288

The Book of the Forest · Parva 3 · 19 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 19 Shlokas

MBh 3.288.1
[कुन्ती] बराह्मणं यन्त्रिता राजन उपस्थास्यामि पूजया यथाप्रतिज्ञं राजेन्द्र न च मिथ्या बरवीम्य अहम
MBh 3.288.2
एष चैव सवभावॊ मे पूजयेयं दविजान इति तव चैव परियं कार्यं शरेयॊ चैतत परं मम
MBh 3.288.3
यद्य एवैष्यति सायाह्ने यदि परातर अथॊ निशि यद्य अर्धरात्रे भगवान न मे कॊपं करिष्यति
MBh 3.288.4
लाभॊ ममैष राजेन्द्र यद वै पूजयती दविजान आदेशे तव तिष्ठन्ती हितं कुर्यां नरॊत्तम
MBh 3.288.5
विस्रब्धॊ भव राजेन्द्र न वयलीकं दविजॊत्तमः वसन पराप्स्यति ते गेहे सत्यम एतद बरवीमि ते
MBh 3.288.6
यत परियं च दविजस्यास्य हितं चैव तवानघ यतिष्यामि तथा राजन वयेतु ते मानसॊ जवरः
MBh 3.288.7
बराह्मणा हि महाभागाः पूजिताः पृथिवीपते तारणाय समर्थाः सयुर विपरीते वधाय च
MBh 3.288.8
साहम एतद विजानन्ती तॊषयिष्ये दविजॊत्तमम न मत्कृते वयथां राजन पराप्स्यसि दविजसत्तमात
MBh 3.288.9
अपराधे हि राजेन्द्र राज्ञाम अश्रेयसे दविजाः भवन्ति चयवनॊ यद्वत सुकन्यायाः कृते पुरा
MBh 3.288.10
नियमेन परेणाहम उपस्थास्ये दविजॊत्तमम यथा तवया नरेन्द्रेदं भाषितं बराह्मणं परति
MBh 3.288.11
[राजा] एवम एतत तवया भद्रे कर्तव्यम अविशङ्कया मद धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि
MBh 3.288.12
[वै] एवम उक्त्वा तु तं कन्यां कुन्तिभॊजॊ महायशाः पृथां परिददौ तस्मै दविजाय सुत वत्सलः
MBh 3.288.13
इयं बरह्मन मम सुता बाला सुखविवर्धिता अपराध्येत यत किं चिन न तत कार्यं हृदि तवया
MBh 3.288.14
दविजातयॊ महाभागा वृद्धबाल तपस्विषु भवन्त्य अक्रॊधनाः परायॊ विरुद्धेष्व अपि नित्यदा
MBh 3.288.15
सुमहत्य अपराधे ऽपि कषान्तिः कार्या दविजातिभिः यथाशक्ति यथॊत्साहं पूजा गराह्या दविजॊत्तम
MBh 3.288.16
तथेति बराह्मणेनॊक्ते स राजा परीतिमानसः हंसचन्द्राश्मु संकाशं गृहम अस्य नयवेदयत
MBh 3.288.17
तत्राग्निशरणे कॢप्तम आनसं तस्य भानुमत आहारादि च सर्वं तत तथैव परत्यवेदयत
MBh 3.288.18
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च आतस्थे परमं यत्नं बराह्मणस्याभिराधने
MBh 3.288.19
तत्र सा बराह्मणं गत्वा पृथा शौचपरा सती विधिवत परिचारार्हं देववत पर्यतॊषयत

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷