🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 257

The Book of the Forest · Parva 3 · 10 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 10 Shlokas

MBh 3.257.1
[जनम] एवं हृतायां कृष्णायां पराप्य कलेशम अनुत्तमम अत ऊर्ध्वं नरव्याघ्राः किम अकुर्वत पाण्डवाः
MBh 3.257.2
[वै] एवं कृष्णां मॊक्षयित्वा विनिर्जित्य जयद्रथम आसां चक्रे मुनिगणैर धर्मराजॊ युधिष्ठिरः
MBh 3.257.3
तेषां मध्ये महर्षीणां शृण्वताम अनुशॊचताम मार्कण्डेयम इदं वाक्यम अब्रवीत पाण्डुनन्दनः
MBh 3.257.4
मन्ये कालश च बलवान दैवं च विधिनिर्मितम भवितव्यं च भूतानां यस्य नास्ति वयतिक्रमः
MBh 3.257.5
कथं हि पत्नीम अस्माकं धर्मज्ञां धर्मचारिणीम संस्पृशेद ईदृशॊ भावः शुचिं सतैन्यम इवानृतम
MBh 3.257.6
न हि पापं कृतं किं चित कर्म वा निन्दितं कव चित दरौपद्या बराह्मणेष्व एव धर्मः सुचरितॊ महान
MBh 3.257.7
तां जहार बलाद राजा मूढ बुद्धिर जयद्रथः तस्याः संहरणात पराप्तः शिरसः केशवापनम पराजयं च संग्रामे ससहायः समाप्तवान
MBh 3.257.8
परत्याहृता तथास्माभिर हत्वा तत सैन्धवं बलम तद दारहरणं पराप्तम अस्माभिर अवितर्कितम
MBh 3.257.9
दुःखश चायं वनेवासॊ मृगयायां च जीविका हिंसा च मृगजातीनां वनौकॊभिर वनौकसाम जञातिभिर विप्रवासश च मिथ्या वयवसितैर अयम
MBh 3.257.10
अस्ति नूनं मया कश चिद अल्पभाग्यतरॊ नरः भवता दृष्टपूर्वॊ वा शरुतपूर्वॊ ऽपि वा भवेत

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷