🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 245
The Book of the Forest · Parva 3 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 34 Shlokas
MBh 3.245.1
वैशंपायन उवाच
वने निवसतां तेषां पाण्डवानां महात्मनाम्
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ
MBh 3.245.2
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्
प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः
MBh 3.245.3
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम्
MBh 3.245.4
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि
MBh 3.245.5
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः
निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत्
MBh 3.245.6
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी
स च भीमो महातेजाः सर्वेषामुत्तमो बली
युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम्
MBh 3.245.7
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः
MBh 3.245.8
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः
आजगाम महायोगी पाण्डवानवलोककः
MBh 3.245.9
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि
MBh 3.245.10
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः
तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः
MBh 3.245.11
तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम्
MBh 3.245.12
युधिष्ठिर महाबाहो शृणु धर्मभृतां वर
नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम्
MBh 3.245.13
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ
MBh 3.245.14
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया
उदयास्तमयज्ञो हि न शोचति न हृष्यति
MBh 3.245.15
सुखमापतितं सेवेद्दुःखमापतितं सहेत्
कालप्राप्तमुपासीत सस्यानामिव कर्षकः
MBh 3.245.16
तपसो हि परं नास्ति तपसा विन्दते महत्
नासाध्यं तपसः किंचिदिति बुध्यस्व भारत
MBh 3.245.17
सत्यमार्जवमक्रोधः संविभागो दमः शमः
अनसूयाविहिंसा च शौचमिन्द्रियसंयमः
साधनानि महाराज नराणां पुण्यकर्मणाम्
MBh 3.245.18
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः
कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः
MBh 3.245.19
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
तस्माच्छरीरं युञ्जीत तपसा नियमेन च
MBh 3.245.20
यथाशक्ति प्रयच्छेच्च संपूज्याभिप्रणम्य च
काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः
MBh 3.245.21
सत्यवादी लभेतायुरनायासमथार्जवी
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्
MBh 3.245.22
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्
MBh 3.245.23
संविभक्ता च दाता च भोगवान्सुखवान्नरः
भवत्यहिंसकश्चैव परमारोग्यमश्नुते
MBh 3.245.24
मान्यान्मानयिता जन्म कुले महति विन्दति
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः
MBh 3.245.25
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः
MBh 3.245.26
युधिष्ठिर उवाच
भगवन्दानधर्माणां तपसो वा महामुने
किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते
MBh 3.245.27
व्यास उवाच
दानान्न दुष्करतरं पृथिव्यामस्ति किंचन
अर्थे हि महती तृष्णा स च दुःखेन लभ्यते
MBh 3.245.28
परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम्
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा
MBh 3.245.29
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः
MBh 3.245.30
तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः
न दुष्करतरं दानात्तस्माद्दानं मतं मम
MBh 3.245.31
विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्
पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत्
MBh 3.245.32
अन्यायसमुपात्तेन दानधर्मो धनेन यः
क्रियते न स कर्तारं त्रायते महतो भयात्
MBh 3.245.33
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर
मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम्
MBh 3.245.34
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 244
- Next chapter · Vana-Parva (Āraṇyaka) Ch 246 →
Sources and Connected Readings
Continue from these 34 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.245local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷