🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 225

The Book of the Forest · Parva 3 · 31 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 31 Shlokas

MBh 3.225.1
[जनम] एवं वने वर्तमाना नराग्र्याः; शीतॊष्णवातातप कर्शिताङ्गाः सरस तद आसाद्य वनं च पुण्यं; ततः परं किम अकुर्वन्त पार्थाः
MBh 3.225.2
[वै] सरस तद आसाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम वनानि रम्याण्य अथ पर्वतांश च; नदी परदेशांश च तदा विचेरुः
MBh 3.225.3
तथा वने तान वसतः परवीरान; सवाध्यायवन्तश च तपॊधनाश च अभ्याययुर वेद विदः पुराणास; तान पूजयाम आसुर अथॊ नराग्र्याः
MBh 3.225.4
ततः कदा चित कुशलः कथासु; विप्रॊ ऽभयगच्छद भुवि कौरवेयान स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपम अभ्यगच्छत
MBh 3.225.5
अथॊपविष्टः परतिसत्कृतश च; वृद्धेन राज्ञा कुरुसत्तमेन परचॊदितः सन कथयां बभूव; धर्मानिलेन्द्र परभवान यमौ च
MBh 3.225.6
कृशांश च वातातपकर्शिताङ्गान; दुःखस्य चॊग्रस्य मुखे परपन्नान तां चाप्य अनाथाम इव वीर नाथां; कृष्णां परिक्लेश गुणेन युक्ताम
MBh 3.225.7
ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः वने सथितान पार्थिव पुत्रपौत्राञ; शरुत्वा तदा दुःखनदीं परपन्नान
MBh 3.225.8
परॊवाच दैत्याभिहतान्तर आत्मा; निःश्वासबास्पॊपहतः स पार्थान वाचं कथं चित सथिरताम उपेत्य; तत सर्वम आत्मप्रभवं विचिन्त्य
MBh 3.225.9
कथं नु सत्यः शुचिर आर्य वृत्तॊ; जयेष्ठः सुतानां मम धर्मराजः अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कव कूटशायी
MBh 3.225.10
परबॊद्यते मागध सूत पूगैर; नित्यं सतुवद्भिः सवयम इन्द्रकल्पः पतत्रिसंघैः स जघन्यरात्रे; परबॊध्यते नूनम इडा तलस्थः
MBh 3.225.11
कथं नु वातातपकर्शिताङ्गॊ; वृकॊदरः कॊपपरिप्लुताङ्गः शेते पृथिव्याम अतथॊचिताङ्गः; कृष्णा समक्षं वसुधातलस्थः
MBh 3.225.12
तथार्जुनः सुकुमारॊ मनस्वी; वशे सथितॊ धर्मसुतस्य राज्ञः विदूयमानैर इव सर्ग गात्रैर; धरुवं न शेते वसतीर अमर्षात
MBh 3.225.13
यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान विनिःश्वसन सर्प इवॊग्रतेजा; धरुवं न शेते वसतीर अमर्षात
MBh 3.225.14
तथा यमौ चाप्य असुखौ सुखार्हौ; समृद्धरूपाव अमरौ दिवीव परजागरस्थौ धरुवम अप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ
MBh 3.225.15
समीरणेनापि समॊ बलेन; समीरणस्यैव सुतॊ बलीयान स धर्मपाशेन सितॊग्र तेजा; धरुवं विनिःश्वस्य सहत्य अमर्षम
MBh 3.225.16
स चापि भूमौ परिवर्तमानॊ; वधं सुतानां मम काङ्क्षमाणः सत्येन धर्मेण च वार्यमाणः; कालं परतीक्षत्य अधिकॊ रणे ऽनयैः
MBh 3.225.17
अजातशत्रौ तु जिते निकृत्या; दुःशासनॊ यत परुषाण्य अवॊचत तानि परविष्टानि वृकॊदराङ्गं; दहन्ति मर्माग्निर इवेन्धनानि
MBh 3.225.18
न पापकं धयास्यति धर्मपुत्रॊ; धनंजयश चाप्य अनुवर्तते तम अरण्यवासेन विवर्धते तु; भीमस्य कॊपॊ ऽगनिर इवानलेन
MBh 3.225.19
स तेन कॊपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः विनिःश्वसत्य उष्णम अतीव घॊरं; दहन्न इवेमान मम पुत्रपौत्रान
MBh 3.225.20
गाण्डीवधन्वा च वृकॊदरश च; संरम्भिणाव अन्तककालकल्पौ न शेषयेतां युधि शत्रुसेनां; शरान किरन्ताव अशनिप्रकाशान
MBh 3.225.21
दुर्यॊधनः शकुनिः सूतपुत्रॊ; दुःशासनश चापि सुमन्दचेताः मधु परपश्यन्ति न तु परपातं; वृकॊदरं चैव धनंजयं च
MBh 3.225.22
शुभाशुभं पुरुषः कर्मकृत्वा; परतीक्षते तस्य फलं सम कर्ता स तेन युज्यत्य अवशः फलेन; मॊक्षः कथं सयात पुरुषस्य तस्मात
MBh 3.225.23
कषेत्रे सुकृष्टे हय उपिते च बीजे; देवे च वर्षत्य ऋतुकालयुक्तम न सयात फलं तस्य कुतः परसिद्धिर; अन्यत्र दैवाद इति चिन्तयामि
MBh 3.225.24
कृतं मताक्षेण यथा न साधु साधु; परवृत्तेन च पाण्डवेन मया च दुष्पुत्र वशानुगेन; यथा कुरूणाम अयम अन्तकालः
MBh 3.225.25
धरुवं परवास्यत्य असमीरितॊ ऽपि; धरुवं परजास्यत्य उत गर्भिणी या धरुवं दिनादौ रजनी परणाशस; तथा कषपादौ च दिनप्रणाशः
MBh 3.225.26
करियेत कस्मान न परे च कुर्युर; वित्तं न दद्युः पुरुषाः कथं चित पराप्यार्थ कालं च भवेद अनर्थः; कथं नु तत सयाद इति तत कुतः सयात
MBh 3.225.27
कथं न भिद्येत न च सरवेत; न च परसिच्येद इति रक्षितव्यम अरक्ष्यमाणः शतधा विशीर्येद; धरुवं न नाशॊ ऽसति कृतस्य लॊके
MBh 3.225.28
गतॊ हय अरण्याद अपि शक्र लॊकं; धनंजयः पश्यत वीर्यम अस्य अस्त्राणि दिव्यानि चतुर्विधानि; जञात्वा पुनर लॊकम इमं परपन्नः
MBh 3.225.29
सवर्गं हि गत्वा सशरीर एव; कॊ मानुषः पुनर आगन्तुम इच्छेत अन्यत्र कालॊपहतान अनेकान; समीक्षमाणस तु कुरून मुमूर्षान
MBh 3.225.30
धनुर गराहश चार्जुनः सव्यसाची; धनुश च तद गाण्डिवं लॊकसारम अस्त्राणि दिव्यानि च तानि तस्य; तरयस्य तेजॊ परसहेत कॊ नु
MBh 3.225.31
निशम्य तद वचनं पार्थिवस्य; दुर्यॊधनॊ रहिते सौबलश च अबॊधयत कर्णम उपेत्य सर्वं; स चाप्य अहृष्टॊ ऽभवद अल्पचेताः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷