🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 225

The Book of the Forest · Parva 3 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 31 Shlokas

MBh 3.225.1
जनमेजय उवाच एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः
MBh 3.225.2
वैशंपायन उवाच सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः
MBh 3.225.3
तथा वने तान्वसतः प्रवीरा;न्स्वाध्यायवन्तश्च तपोधनाश्च अभ्याययुर्वेदविदः पुराणा;स्तान्पूजयामासुरथो नराग्र्याः
MBh 3.225.4
ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान् स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत्
MBh 3.225.5
अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च
MBh 3.225.6
कृशांश्च वातातपकर्शिताङ्गा;न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम्
MBh 3.225.7
ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः वने स्थितान्पार्थिवपुत्रपौत्रा;ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान्
MBh 3.225.8
प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् वाचं कथंचित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य
MBh 3.225.9
कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी
MBh 3.225.10
प्रबोध्यते मागधसूतपूगै;र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः पतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः
MBh 3.225.11
कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः
MBh 3.225.12
तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः विदूयमानैरिव सर्वगात्रै;र्ध्रुवं न शेते वसतीरमर्षात्
MBh 3.225.13
यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात्
MBh 3.225.14
तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ
MBh 3.225.15
समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम्
MBh 3.225.16
स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः
MBh 3.225.17
अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत् तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि
MBh 3.225.18
न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश्चाप्यनुवर्तते तम् अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन
MBh 3.225.19
स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान्
MBh 3.225.20
गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान्
MBh 3.225.21
दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च
MBh 3.225.22
शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात्
MBh 3.225.23
क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम् न स्यात्फलं तस्य कुतः प्रसिद्धि;रन्यत्र दैवादिति चिन्तयामि
MBh 3.225.24
कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः
MBh 3.225.25
ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या ध्रुवं दिनादौ रजनीप्रणाश;स्तथा क्षपादौ च दिनप्रणाशः
MBh 3.225.26
क्रियेत कस्मान्न परे च कुर्यु;र्वित्तं न दद्युः पुरुषाः कथंचित् प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात्
MBh 3.225.27
कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम् अरक्ष्यमाणः शतधा विशीर्ये;द्ध्रुवं न नाशोऽस्ति कृतस्य लोके
MBh 3.225.28
गतो ह्यरण्यादपि शक्रलोकं; धनंजयः पश्यत वीर्यमस्य अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः
MBh 3.225.29
स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत् अन्यत्र कालोपहताननेका;न्समीक्षमाणस्तु कुरून्मुमूर्षून्
MBh 3.225.30
धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम् अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु
MBh 3.225.31
निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 31 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.225local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷