🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 22
The Book of the Forest · Parva 3 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 30 Shlokas
MBh 3.22.1
वासुदेव उवाच
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः
युध्यमानो मया संख्ये वियदभ्यागमत्पुनः
MBh 3.22.2
ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च
चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी
MBh 3.22.3
तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव
द्विधा त्रिधा चाच्छिनमाशु मुक्तै;स्ततोऽन्तरिक्षे निनदो बभूव
MBh 3.22.4
ततः शतसहस्रेण शराणां नतपर्वणाम्
दारुकं वाजिनश्चैव रथं च समवाकिरत्
MBh 3.22.5
ततो मामब्रवीद्वीर दारुको विह्वलन्निव
स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः
MBh 3.22.6
इति तस्य निशम्याहं सारथेः करुणं वचः
अवेक्षमाणो यन्तारमपश्यं शरपीडितम्
MBh 3.22.7
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये
अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः
MBh 3.22.8
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान्
MBh 3.22.9
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे
अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम्
MBh 3.22.10
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्
त्वरितो रथमभ्येत्य सौहृदादिव भारत
MBh 3.22.11
आहुकस्य वचो वीर तस्यैव परिचारकः
विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर
MBh 3.22.12
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः
केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत्
MBh 3.22.13
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन
विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात्
MBh 3.22.14
तदलं साधु युद्धेन निवर्तस्व जनार्दन
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव
MBh 3.22.15
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा
MBh 3.22.16
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम्
जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः
MBh 3.22.17
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन
तेषु रक्षां समाधाय प्रयातः सौभपातने
MBh 3.22.18
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः
MBh 3.22.19
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम्
MBh 3.22.20
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः
बलदेवमुखाः सर्वे इति मे निश्चिता मतिः
MBh 3.22.21
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः
सुविह्वलो महाराज पुनः शाल्वमयोधयम्
MBh 3.22.22
ततोऽपश्यं महाराज प्रपतन्तमहं तदा
सौभाच्छूरसुतं वीर ततो मां मोह आविशत्
MBh 3.22.23
तस्य रूपं प्रपततः पितुर्मम नराधिप
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम्
MBh 3.22.24
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः
MBh 3.22.25
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम
मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम्
MBh 3.22.26
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत
MBh 3.22.27
प्रसार्य बाहू पततः प्रसार्य चरणावपि
रूपं पितुरपश्यं तच्छकुनेः पततो यथा
MBh 3.22.28
तं पतन्तं महाबाहो शूलपट्टिशपाणयः
अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन्
MBh 3.22.29
ततो मुहूर्तात्प्रतिलभ्य संज्ञा;महं तदा वीर महाविमर्दे
न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि
MBh 3.22.30
ततो ममासीन्मनसि मायेयमिति निश्चितम्
प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 21
- Next chapter · Vana-Parva (Āraṇyaka) Ch 23 →
Sources and Connected Readings
Continue from these 30 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.22local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷