🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 213
The Book of the Forest · Parva 3 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 52 Shlokas
MBh 3.213.1
मार्कण्डेय उवाच
अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ
शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः
MBh 3.213.2
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम्
MBh 3.213.3
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्
तत्राजयन्सदा देवान्दानवा घोररूपिणः
MBh 3.213.4
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः
स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा
MBh 3.213.5
देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया
MBh 3.213.6
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा
MBh 3.213.7
अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे
MBh 3.213.8
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः
MBh 3.213.9
किरीटिनं गदापाणिं धातुमन्तमिवाचलम्
हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत्
MBh 3.213.10
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि
वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात्
MBh 3.213.11
केश्युवाच
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन
MBh 3.213.12
मार्कण्डेय उवाच
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः
MBh 3.213.13
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्
तदापतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः
बिभेद राजन्वज्रेण भुवि तन्निपपात ह
MBh 3.213.14
पतता तु तदा केशी तेन शृङ्गेण ताडितः
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः
MBh 3.213.15
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्
कासि कस्यासि किं चेह कुरुषे त्वं शुभानने
MBh 3.213.16
कन्योवाच
अहं प्रजापतेः कन्या देवसेनेति विश्रुता
भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता
MBh 3.213.17
सहैवावां भगिन्यौ तु सखीभिः सह मानसम्
आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम्
MBh 3.213.18
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः
इच्छत्येनं दैत्यसेना न त्वहं पाकशासन
MBh 3.213.19
सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम्
MBh 3.213.20
इन्द्र उवाच
मम मातृष्वसेया त्वं माता दाक्षायणी मम
आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया
MBh 3.213.21
कन्योवाच
अबलाहं महाबाहो पतिस्तु बलवान्मम
वरदानात्पितुर्भावी सुरासुरनमस्कृतः
MBh 3.213.22
इन्द्र उवाच
कीदृशं वै बलं देवि पत्युस्तव भविष्यति
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते
MBh 3.213.23
कन्योवाच
देवदानवयक्षाणां किंनरोरगरक्षसाम्
जेता स दृष्टो दुष्टानां महावीर्यो महाबलः
MBh 3.213.24
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः
MBh 3.213.25
मार्कण्डेय उवाच
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्
अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते
MBh 3.213.26
अथापश्यत्स उदये भास्करं भास्करद्युतिः
सोमं चैव महाभागं विशमानं दिवाकरम्
MBh 3.213.27
अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रमेव च
देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ
MBh 3.213.28
लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः
अपश्यल्लोहितोदं च भगवान्वरुणालयम्
MBh 3.213.29
भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम्
MBh 3.213.30
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्
तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम्
MBh 3.213.31
समालोक्यैकतामेव शशिनो भास्करस्य च
समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत्
MBh 3.213.32
एष रौद्रश्च संघातो महान्युक्तश्च तेजसा
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्
MBh 3.213.33
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत्
MBh 3.213.34
एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः
गृहीत्वा देवसेनां तामवन्दत्स पितामहम्
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश
MBh 3.213.35
ब्रह्मोवाच
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन
तथा स भविता गर्भो बलवानुरुविक्रमः
MBh 3.213.36
स भविष्यति सेनानीस्त्वया सह शतक्रतो
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान्
MBh 3.213.37
मार्कण्डेय उवाच
एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया
तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन्
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः
MBh 3.213.38
भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः
MBh 3.213.39
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्
MBh 3.213.40
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात्
विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्
MBh 3.213.41
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम्
MBh 3.213.42
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्
स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम्
MBh 3.213.43
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः
हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः
MBh 3.213.44
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ
MBh 3.213.45
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत्
साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम्
MBh 3.213.46
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः
MBh 3.213.47
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः
MBh 3.213.48
निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः
MBh 3.213.49
कामसंतप्तहृदयो देहत्यागे सुनिश्चितः
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः
MBh 3.213.50
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा
सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी
अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता
MBh 3.213.51
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम्
तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी
MBh 3.213.52
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्
कामयिष्यामि कामार्तं तासां रूपेण मोहितम्
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Vana-Parva (Āraṇyaka) chapter-index (299 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Vana-Parva (Āraṇyaka) Ch 212
- Next chapter · Vana-Parva (Āraṇyaka) Ch 214 →
Sources and Connected Readings
Continue from these 52 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 3.213local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷