🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 206

The Book of the Forest · Parva 3 · 34 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 34 Shlokas

MBh 3.206.1
[वयध] एवं शप्तॊ ऽहम ऋषिणा तदा दविजवरॊत्तम अभिप्रसादयम ऋषिं गिरा वाक्यं विशारदम
MBh 3.206.2
अजानता मयाकार्यम इदम अद्य कृतं मुने कषन्तुम अर्हसि तत सर्वं परसीद भगवन्न इति
MBh 3.206.3
[रसिर] नान्यथा भविता शाप एवम एतद असंशयम आनृशंस्याद अहं किं चित कर्तानुग्रहम अद्य ते
MBh 3.206.4
शूद्रयॊनौ वर्तमानॊ धर्मज्ञॊ भविता हय असि मातापित्रॊश च शुश्रूषां करिष्यसि न संशयः
MBh 3.206.5
तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि जातिस्रमश च भविता सवर्गं चैव गमिष्यसि शापक्षयान्ते निर्वृत्ते भवितासि पुनर दविजः
MBh 3.206.6
[वयध] एवं शप्तः पुरा तेन ऋषिणास्म्य उग्रतेजसा परसादश च कृतस तेन ममैवं दविपदां वर
MBh 3.206.7
शरं चॊद्धृतवान अस्मि तस्य वै दविजसत्तम आश्रमं च मया नीतॊ न च पराणैर वययुज्यत
MBh 3.206.8
एतत ते सर्वम आख्यातं यथा मम पुराभवत अभितश चापि गन्तव्यं मया सवर्गं दविजॊत्तम
MBh 3.206.9
[बरा] एवम एतानि पुरुषा दुःखानि च सुखानि च पराप्नुवन्ति महाबुद्धे नॊत्कण्ठां कर्तुम अर्हसि दुष्करं हि कृतं तात जानता जातिम आत्मनः
MBh 3.206.10
कर्म दॊषश च वै विद्वन्न आत्मजातिकृतेन वै कं चित कालं मृष्यतां वै ततॊ ऽसि भविता दविजः सांप्रतं च मतॊ मे ऽसि बराह्मणॊ नात्र संशयः
MBh 3.206.11
बराह्मणः पतनीयेषु वर्तमानॊ विकर्मसु दाम्भिकॊ दुष्कृतप्रायः शूद्रेण सदृशॊ भवेत
MBh 3.206.12
यस तु शूद्रॊ दमे सत्ये धर्मे च सततॊत्थितः तं बराह्मणम अहं मन्ये वृत्तेन हि भवेद दविजः
MBh 3.206.13
कर्म दॊषेण विषमा गतिम आप्नॊति दारुणाम कषीणदॊषम अहं मन्ये चाभितस तवां नरॊत्तम
MBh 3.206.14
कर्तुम अर्हसि नॊत्कण्ठां तवद्विधा हय अविषादिनः लॊकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः
MBh 3.206.15
[वयध] परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः एतद विज्ञानसामर्थ्यं न बालैः समतां वरजेत
MBh 3.206.16
अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च मानुषा मानसैर दुःखैर युज्यन्ते अल्पबुद्धयः
MBh 3.206.17
गुणैर भूतानि युज्यन्ते वियुज्यन्ते तथैव च सर्वाणि नैतद एकस्य शॊकस्थानं हि विद्यते
MBh 3.206.18
अनिष्टेनान्वितं पश्यंस तथा कषिप्रं विरज्यते ततश च परतिकुर्वन्ति यदि पश्यन्त्य उपक्रमम शॊचतॊ न भवेत किं चित केवलं परितप्यते
MBh 3.206.19
परित्यजन्ति ये दुःखं सुखं वाप्य उभयं नराः त एव सुखम एधन्ते जञानतृप्ता मनीषिणः
MBh 3.206.20
असंतॊष परा मूढाः संतॊषं यान्ति पण्डिताः असंतॊषस्य नास्त्य अन्तस तुष्टिस तु परमं सुखम न शॊचन्ति गताध्वानः पश्यन्तः परमां गतिम
MBh 3.206.21
न विषादे मनॊ कार्यं विषादॊ विषम उत्तमम मारयत्य अकृतप्रज्ञं बालं करुद्ध इवॊरगः
MBh 3.206.22
यं विषादाभिभवति विषमे समुपस्थिते तेजसा तस्य हीनस्य पुरुषार्थॊ न विद्यते
MBh 3.206.23
अवश्यं करियमाणस्य कर्मणॊ दृश्यते फलम न हि निर्वेदम आगम्य किं चित पराप्नॊति शॊभनम
MBh 3.206.24
अथाप्य उपायं पश्येत दुःखस्य परिमॊक्षणे अशॊचन्न आरभेतैव युक्तश चाव्यसनी भवेत
MBh 3.206.25
भूतेष्व अभावं संचिन्त्य ये तु बुद्धेः परं गताः न शॊचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम
MBh 3.206.26
न शॊचामि च वै विद्वन कालाकाङ्क्षी सथितॊ ऽसम्य अहम एतैर निर्दशनैर बरह्मन नावसीदामि सत्तम
MBh 3.206.27
[बरा] कृतप्रज्ञॊ ऽसि मेधावी बुद्धिश च विपुला तव नाहं भवन्तं शॊचामि जञानतृप्तॊ ऽसि धर्मवित
MBh 3.206.28
आपृच्छे तवां सवस्ति ते ऽसतु धर्मस तवा परिरक्षतु अप्रमादस तु कर्तव्यॊ धर्मे धर्मभृतां वर
MBh 3.206.29
[मार्क] बाढम इत्य एव तं वयाधः कृताञ्जलिर उवाच ह परदक्षिणम अथॊ कृत्वा परस्थितॊ दविजसत्तमः
MBh 3.206.30
स तु गत्वा दविजः सर्वां शुश्रूषां कृतवांस तदा माता पितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः
MBh 3.206.31
एतत ते सर्वम आख्यातं निखिलेन युधिष्ठिर पृष्टवान असि यं तात धर्मं धर्मभृतां वर
MBh 3.206.32
पतिव्रताया माहात्म्यं बराह्मणस्य च सत्तम माता पित्रॊश च शुश्रूषा वयाधे धर्मश च कीर्तितः
MBh 3.206.33
[य] अत्यद्भुतम इदं बरह्मन धर्माख्यानम अनुत्तमम सर्वधर्मभृतां शरेष्ठ कथितं दविजसत्तम
MBh 3.206.34
सुखश्रव्यतया विद्वन मुहूर्तम इव मे गतम न हि तृप्तॊ ऽसमि भगवाञ शृण्वानॊ धर्मम उत्तमम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷