🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 167

The Book of the Forest · Parva 3 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 3.167.1
अर्जुन उवाच ततो निवातकवचाः सर्वे वेगेन भारत अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे
MBh 3.167.2
आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्
MBh 3.167.3
ततोऽपरे महावीर्याः शूलपट्टिशपाणयः शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि
MBh 3.167.4
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् अनिशं सृज्यमानं तैरपतन्मद्रथोपरि
MBh 3.167.5
अन्ये मामभ्यधावन्त निवातकवचा युधि शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः
MBh 3.167.6
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः
MBh 3.167.7
ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान्
MBh 3.167.8
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे तदा मातलिना यत्ता व्यचरन्नल्पका इव
MBh 3.167.9
तेषां चरणपातेन रथनेमिस्वनेन च मम बाणनिपातैश्च हतास्ते शतशोऽसुराः
MBh 3.167.10
गतासवस्तथा चान्ये प्रगृहीतशरासनाः हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः
MBh 3.167.11
ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः
MBh 3.167.12
ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् अश्वांस्तथा वेगवतो यदयत्नादधारयत्
MBh 3.167.13
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः
MBh 3.167.14
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः
MBh 3.167.15
वध्यमानास्ततस्ते तु हयैस्तेन रथेन च अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे
MBh 3.167.16
स्पर्धमाना इवास्माभिर्निवातकवचा रणे शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन्
MBh 3.167.17
ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः व्यधमं सायकैराशु शतशोऽथ सहस्रशः
MBh 3.167.18
ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः
MBh 3.167.19
ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् दयितं देवराजस्य माधवं नाम भारत
MBh 3.167.20
ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम्
MBh 3.167.21
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः
MBh 3.167.22
गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत्
MBh 3.167.23
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव अवाकिरन्मां बलवत्तानहं व्यधमं शरैः
MBh 3.167.24
वध्यमानास्ततस्ते तु निवातकवचाः पुनः शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन्
MBh 3.167.25
शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः
MBh 3.167.26
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम्
MBh 3.167.27
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः
MBh 3.167.28
शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः ततो निवातकवचा मामयुध्यन्त मायया

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.167local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷