🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 161

The Book of the Forest · Parva 3 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 29 Shlokas

MBh 3.161.1
वैशंपायन उवाच तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम् रतिः प्रमोदश्च बभूव तेषा;माकाङ्क्षतां दर्शनमर्जुनस्य
MBh 3.161.2
तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां;स्तेजस्विनः सत्यधृतिप्रधानान् संप्रीयमाणा बहवोऽभिजग्मु;र्गन्धर्वसंघाश्च महर्षयश्च
MBh 3.161.3
तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम् मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम्
MBh 3.161.4
मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः
MBh 3.161.5
साक्षात्कुबेरेण कृताश्च तस्मि;न्नगोत्तमे संवृतकूलरोधसः कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन्
MBh 3.161.6
क्रीडाप्रदेशांश्च समृद्धरूपा;न्सुचित्रमाल्यावृतजातशोभान् मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः
MBh 3.161.7
अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः संततमभ्रमालिभिः तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः
MBh 3.161.8
स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् विभक्तभावो न बभूव कश्चि;दहर्निशानां पुरुषप्रवीर
MBh 3.161.9
यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः तस्योदयं चास्तमयं च वीरा;स्तत्र स्थितास्ते ददृशुर्नृसिंहाः
MBh 3.161.10
रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च
MBh 3.161.11
स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः
MBh 3.161.12
इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः
MBh 3.161.13
दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम् बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः
MBh 3.161.14
यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम्
MBh 3.161.15
भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी यत्काम्यकात्प्रव्रजितः स जिष्णु;स्तदैव ते शोकहता बभूवुः
MBh 3.161.16
तथा तु तं चिन्तयतां सिताश्व;मस्त्रार्थिनं वासवमभ्युपेतम् मासोऽथ कृच्छ्रेण तदा व्यतीत;स्तस्मिन्नगे भारत भारतानाम्
MBh 3.161.17
ततः कदाचिद्धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम् विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव
MBh 3.161.18
स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसंगृहीतः बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा
MBh 3.161.19
तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत् धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम
MBh 3.161.20
स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात् धौम्यस्य पादावभिवाद्य पूर्व;मजातशत्रोस्तदनन्तरं च
MBh 3.161.21
वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः
MBh 3.161.22
बभूव तेषां परमः प्रहर्ष;स्तेनाप्रमेयेण समागतानाम् स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन्
MBh 3.161.23
यमास्थितः सप्त जघान पूगा;न्दितेः सुतानां नमुचेर्निहन्ता तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः
MBh 3.161.24
ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम् सर्वं यथावच्च दिवौकसस्ता;न्पप्रच्छुरेनं कुरुराजपुत्राः
MBh 3.161.25
तानप्यसौ मातलिरभ्यनन्द;त्पितेव पुत्राननुशिष्य चैनान् ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य
MBh 3.161.26
गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे
MBh 3.161.27
ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम् विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव
MBh 3.161.28
एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात् तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः
MBh 3.161.29
संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम् माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 29 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.161local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷