🪷 Mahābhārata · Vana-Parva (Āraṇyaka) · Chapter 130

The Book of the Forest · Parva 3 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 3.130.1
लोमश उवाच इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत मर्तुकामा नरा राजन्निहायान्ति सहस्रशः
MBh 3.130.2
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः
MBh 3.130.3
एषा सरस्वती पुण्या दिव्या चोघवती नदी एतद्विनशनं नाम सरस्वत्या विशां पते
MBh 3.130.4
द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः
MBh 3.130.5
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः
MBh 3.130.6
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम लोपामुद्रा समागम्य भर्तारमवृणीत वै
MBh 3.130.7
एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम्
MBh 3.130.8
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् एषा रम्या विपाशा च नदी परमपावनी
MBh 3.130.9
अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः
MBh 3.130.10
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह
MBh 3.130.11
अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च अग्नेश्चात्रैव संवादः काश्यपस्य च भारत
MBh 3.130.12
एतद्द्वारं महाराज मानसस्य प्रकाशते वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्
MBh 3.130.13
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः
MBh 3.130.14
एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः
MBh 3.130.15
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना
MBh 3.130.16
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम्
MBh 3.130.17
जलां चोपजलां चैव यमुनामभितो नदीम् उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत
MBh 3.130.18
तां देवसमितिं तस्य वासवश्च विशां पते अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत
MBh 3.130.19
जिज्ञासमानौ वरदौ महात्मानमुशीनरम् इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः
MBh 3.130.20
ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् शरणार्थी तदा राजन्निलिल्ये भयपीडितः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Vana-Parva (Āraṇyaka), the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 3.130local chapter route · Vana-Parva (Āraṇyaka)Vana-Parva (Āraṇyaka)parent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷