🪷 Mahābhārata · Udyoga-Parva · Chapter 93

The Book of the Effort · Parva 5 · 62 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 5.93local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 62 Shlokas

MBh 5.93.1
[व] तेष्व आसीनेषु सर्वेषु तूष्णींभूतेषु राजसु वाक्यम अभ्याददे कृष्णः सुदंष्ट्रॊ दुन्दुभिस्वनः
MBh 5.93.2
जीमूत इव धर्मान्ते सर्वां संश्रावयन सभाम धृतराष्ट्रम अभिप्रेक्ष्य समभाषत माधवः
MBh 5.93.3
कुरूणां पाण्डवानां च शमः सयाद इति भारत अप्रयत्नेन वीराणाम एतद यतितुम आगतः
MBh 5.93.4
राजन नान्यत परवक्तव्यं तव निःश्रेयसं वचः विदितं हय एव ते सर्वं वेदितव्यम अरिंदम
MBh 5.93.5
इदम अद्य कुलं शरेष्ठं सर्वराजसु पार्थिव शरुतवृत्तॊपसंपन्नं सर्वैः समुदितं गुणैः
MBh 5.93.6
कृपानुकम्पा कारुण्यम आनृशंस्यं च भारत तथार्जवं कषमा सत्यं कुरुष्व एतद विशिष्यते
MBh 5.93.7
तस्मिन्न एवंविधे राजन कुले महति तिष्ठति तवन्निमित्तं विशेषेण नेह युक्तम असांप्रतम
MBh 5.93.8
तवं हि वारयिता शरेष्ठः कुरूणां कुरुसत्तम मिथ्या परचरतां तात बाह्येष्व आभ्यन्तरेषु च
MBh 5.93.9
ते पुत्रास तव कौरव्य दुर्यॊधन पुरॊगमाः धर्मार्थौ पृष्ठतः कृत्वा परचरन्ति नृशंसवत
MBh 5.93.10
अशिष्टा गतमर्यादा लॊभेन हृतचेतसः सवेषु बन्धुषु मुख्येषु तद वेत्थ भरतर्षभ
MBh 5.93.11
सेयम आपन महाघॊरा कुरुष्व एव समुत्थिता उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति
MBh 5.93.12
शक्या चेयं शमयितुं तवं चेद इच्छसि भारत न दुष्करॊ हय अत्र शमॊ मतॊ मे भरतर्षभ
MBh 5.93.13
तवय्य अधीनः शमॊ राजन मयि चैव विशां पते पुत्रान सथापय कौरव्य सथापयिष्याम्य अहं परान
MBh 5.93.14
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः हितं बलवद अप्य एषां तिष्ठतां तव शासने
MBh 5.93.15
तव चैव हितं राजन पाण्डवानाम अथॊ हितम शमे परयतमानस्य मम शासनकाङ्क्षिणाम
MBh 5.93.16
सवयं निष्कलम आलक्ष्य संविधत्स्व विशां पते सह भूतास तु भरतास तवैव सयुर जनेश्वर
MBh 5.93.17
धर्मार्थयॊर तिष्ठ राजन पाण्डवैर अभिरक्षितः न हि शक्यास तथा भूता यत्नाद अपि नराधिप
MBh 5.93.18
न हि तवां पाण्डवैर जेतुं रक्ष्यमाणं महात्मभिः इन्द्रॊ ऽपि देवैः सहितः परसहेत कुतॊ नृपाः
MBh 5.93.19
यत्र भीष्मश च दरॊणश च कृपः कर्णॊ विविंशतिः अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ बाह्लिकः
MBh 5.93.20
सैन्धवश च कलिङ्गश च काम्बॊजश च सुदक्षिणः युधिष्ठिरॊ भीमसेनः सव्यसाची यमौ तथा
MBh 5.93.21
सात्यकिश च महातेजा युयुत्सुश च महारथ कॊ नु तान विपरीतात्मा युध्येत भरतर्षभ
MBh 5.93.22
लॊकस्येश्वरतां भूयः शत्रुभिश चाप्रधृष्यताम पराप्स्यसि तवम अमित्रघ्न सहितः कुरुपाण्डवैः
MBh 5.93.23
तस्य ते पृथिवीपालास तवत्समाः पृथिवीपते शरेयांसश चैव राजानः संधास्यन्ते परंतप
MBh 5.93.24
स तवं पुत्रैश च पौत्रैश च भरातृभिः पितृभिस तथा सुहृद्भिः सर्वतॊ गुप्तः सुखं शक्ष्यसि जीवितुम
MBh 5.93.25
एतान एव पुरॊधाय सत्कृत्य च यथा पुरा अखिलां भिक्ष्यसे सर्वां पृथिवीं पृथिवीपते
MBh 5.93.26
एतैर हि सहितः सर्वैः पाण्डवैः सवैश च भारत अन्यान विजेष्यसे शत्रून एष सवार्थस तवाखिलः
MBh 5.93.27
तैर एवॊपार्जितां भूमिं भॊक्ष्यसे च परंतप यदि संपत्स्यसे पुत्रैः सहामात्यैर नराधिप
MBh 5.93.28
संयुगे वै महाराज दृश्यते सुमहान कषयः कषये चॊभयतॊ राजन कं धर्मम अनुपश्यसि
MBh 5.93.29
पाण्डवैर निहतैः संख्ये पुत्रैर वापि महाबलैः यद विन्देथाः सुखं राजंस तद बरूहि भरतर्षभ
MBh 5.93.30
शूराश च हि कृतास्त्राश च सर्वे युद्धाभिकाङ्क्षिणः पाण्डवास तावकाश चैव तान रक्ष महतॊ भयात
MBh 5.93.31
न पश्येम कुरून सर्वान पाण्डवांश चैव संयुगे कषीणान उभयतः शूरान रथेभ्यॊ रथिभिर हतान
MBh 5.93.32
समवेताः पृथिव्यां हि राजानॊ राजसत्तम अमर्षवशम आपन्ना नाशयेयुर इमाः परजाः
MBh 5.93.33
तराहि राजन्न इमं लॊकं न नश्येयुर इमाः परजाः तवयि परकृतिम आपन्ने शेषं सयात कुरुनन्दन
MBh 5.93.34
शुक्ला वदान्या हरीमन्त आर्याः पुण्याभिजातयः अन्यॊन्यसचिवा राजंस तान पाहि महतॊ भयात
MBh 5.93.35
शिवेनेमे भूमिपालाः समागम्य परस्परम सह भुक्त्वा च पीत्वा च परतियान्तु यथा गृहम
MBh 5.93.36
सुवाससः सरग्विणश च सत्कृत्य भरतर्षभ अमर्षांश च निराकृत्य वैराणि च परंतप
MBh 5.93.37
हार्दं यत पाण्डवेष्व आसीत पराप्ते ऽसमिन्न आयुषः कषये तद एव ते भवत्य अद्य शश्वच च भरतर्षभ
MBh 5.93.38
बाला विहीनाः पित्रा ते तवयैव परिवर्धिताः तान पालय यथान्यायं पुत्रांश च भरतर्षभ
MBh 5.93.39
भवतैव हि रक्ष्यास ते वयसनेषु विशेषतः मा ते धर्मस तथैवार्थॊ नश्येत भरतर्षभ
MBh 5.93.40
आहुस तवां पाण्डवा राजन्न अभिवाद्य परसाद्य च भवतः शासनाद दुःखम अनुभूतं सहानुगैः
MBh 5.93.41
दवादशेमानि वर्षाणि वने निर्व्युषितानि नः तरयॊदशं तथाज्ञातैः सजने परिवत्सरम
MBh 5.93.42
सथाता नः समये तस्मिन पितेति कृतनिश्चयाः नाहास्म समयं तात तच च नॊ बराह्मणा विदुः
MBh 5.93.43
तस्मिन नः समये तिष्ठ सथितानां भरतर्षभ नित्यं संक्लेशिता राजन सवराज्यांशं लभेमहि
MBh 5.93.44
तवं धर्मम अर्थं युञ्जानः सम्यङ नस तरातुम अर्हसि गुरुत्वं भवति परेक्ष्य बहून कलेशांस तितिक्ष्महे
MBh 5.93.45
स भवान मातृपितृवद अस्मासु परतिपद्यताम गुरॊर गरीयसी वृत्तिर या च शिष्यस्य भारत
MBh 5.93.46
पित्रा सथापयितव्या हि वयम उत्पथम आस्थिताः संस्थापय पथिष्व अस्मांस तिष्ठ राजन सववर्त्मनि
MBh 5.93.47
आहुश चेमां परिषदं पुत्रास ते भरतर्षभ धर्मज्ञेषु सभासत्सु नेह युक्तम असांप्रतम
MBh 5.93.48
यत्र धर्मॊ हय अधर्मेण सत्यं यत्रानृतेन च हन्यते परेक्षमाणानां हतास तत्र सभासदः
MBh 5.93.49
विद्धॊ धर्मॊ हय अधर्मेण सभां यत्र परपद्यते न चास्य शल्यं कृन्तन्ति विद्धास तत्र सभासदः धर्म एतान आरुजति यथा नद्य अनुकूलजान
MBh 5.93.50
ये धर्मम अनुपश्यन्तस तूष्णीं धयायन्त आसते ते सत्यम आहुर धर्मं च नयाय्यं च भरतर्षभ
MBh 5.93.51
शक्यं किम अन्यद वक्तुं ते दानाद अन्यज जनेश्वर बरुवन्तु वा महीपालाः सभायां ये समासते धर्मार्थौ संप्रधार्यैव यदि सत्यं बरवीम्य अहम
MBh 5.93.52
परमुञ्चेमान मृत्युपाशात कषत्रियान कषत्रियर्षभ परशाम्य भरतश्रेष्ठ मा मन्युवशम अन्वगाः
MBh 5.93.53
पित्र्यं तेभ्यः परदायांशं पाण्डवेभ्यॊ यथॊचितम ततः सपुत्रः सिद्धार्थॊ भुङ्क्ष्व भॊगान परंतप
MBh 5.93.54
अजातशत्रुं जानीषे सथितं धर्मे सतां सदा सपुत्रे तवयि वृत्तिं च वर्तते यां नराधिप
MBh 5.93.55
दाहितश च निरस्तश च तवाम एवॊपाश्रितः पुनः इन्द्रप्रस्थं तवयैवासौ सपुत्रेण विवासितः
MBh 5.93.56
स तत्र निवसन सर्वान वशम आनीय पार्थिवान तवन मुखान अकरॊद राजन न च तवाम अत्यवर्तत
MBh 5.93.57
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता राष्ट्राणि धनधान्यं च परयुक्तः परमॊपधिः
MBh 5.93.58
स ताम अवस्थां संप्राप्य कृष्णां परेक्ष्य सभा गताम कषत्रधर्माद अमेयात्मा नाकम्पत युधिष्ठिरः
MBh 5.93.59
अहं तु तव तेषां च शरेय इच्छामि भारत धर्माद अर्थात सुखाच चैव मा राजन नीनशः परजाः
MBh 5.93.60
अनर्थम अर्थं मन्वाना अर्थं वानर्थम आत्मनः लॊभे ऽतिप्रसृतान पुत्रान निगृह्णीष्व विशां पते
MBh 5.93.61
सथिताः शुश्रूषितुं पार्थाः सथिता यॊद्धुम अरिंदमाः यत ते पथ्यतमं राजंस तस्मिंस तिष्ठ परंतप
MBh 5.93.62
तद वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन न तत्र कश चिद वक्तुं हि वाचं पराकामद अग्रतः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷