🪷 Mahābhārata · Udyoga-Parva · Chapter 91

The Book of the Effort · Parva 5 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 5.91.1
भगवानुवाच यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत्
MBh 5.91.2
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत्
MBh 5.91.3
सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् शृणुष्वागमने हेतुं विदुरावहितो भव
MBh 5.91.4
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्
MBh 5.91.5
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम्
MBh 5.91.6
धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः
MBh 5.91.7
मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः
MBh 5.91.8
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम्
MBh 5.91.9
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः
MBh 5.91.10
व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः
MBh 5.91.11
आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम्
MBh 5.91.12
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति
MBh 5.91.13
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया
MBh 5.91.14
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति
MBh 5.91.15
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः
MBh 5.91.16
न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान्
MBh 5.91.17
उभयोः साधयन्नर्थमहमागत इत्युत तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम्
MBh 5.91.18
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् न चेदादास्यते बालो दिष्टस्य वशमेष्यति
MBh 5.91.19
अहापयन्पाण्डवार्थं यथाव;च्छमं कुरूणां यदि चाचरेयम् पुण्यं च मे स्याच्चरितं महार्थं; मुच्येरंश्च कुरवो मृत्युपाशात्
MBh 5.91.20
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम् अवेक्षेरन्धार्तराष्ट्राः समर्थां; मां च प्राप्तं कुरवः पूजयेयुः
MBh 5.91.21
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः
MBh 5.91.22
वैशंपायन उवाच इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.91local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷