🪷 Mahābhārata · Udyoga-Parva · Chapter 81
The Book of the Effort · Parva 5 · 72 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 72 Shlokas
MBh 5.81.1
अर्जुन उवाच
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः
संबन्धी दयितो नित्यमुभयोः पक्षयोरपि
MBh 5.81.2
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्
समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव
MBh 5.81.3
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम्
शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन्
MBh 5.81.4
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्
हितं नादास्यते बालो दिष्टस्य वशमेष्यति
MBh 5.81.5
भगवानुवाच
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया
MBh 5.81.6
वैशंपायन उवाच
ततो व्यपेते तमसि सूर्ये विमल उद्गते
मैत्रे मुहूर्ते संप्राप्ते मृद्वर्चिषि दिवाकरे
MBh 5.81.7
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे
स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः
MBh 5.81.8
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः
MBh 5.81.9
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलंकृतः
उपतस्थे विवस्वन्तं पावकं च जनार्दनः
MBh 5.81.10
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः
MBh 5.81.11
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम्
MBh 5.81.12
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च
MBh 5.81.13
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः
न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा
MBh 5.81.14
ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः
MBh 5.81.15
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम्
चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम्
MBh 5.81.16
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः
MBh 5.81.17
तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम्
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम्
MBh 5.81.18
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम्
MBh 5.81.19
वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः
स्नातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा
MBh 5.81.20
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः
MBh 5.81.21
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्
आरुरोह रथं शौरिर्विमानमिव पुण्यकृत्
MBh 5.81.22
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन्
MBh 5.81.23
व्यपोढाभ्रघनः कालः क्षणेन समपद्यत
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः
MBh 5.81.24
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः
MBh 5.81.25
मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम्
MBh 5.81.26
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत
MBh 5.81.27
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः
शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः
MBh 5.81.28
ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम्
प्रदक्षिणमवर्तन्त सहिता वासवानुजम्
MBh 5.81.29
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति
MBh 5.81.30
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ
MBh 5.81.31
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः
द्रुपदः काशिराजश्च शिखण्डी च महारथः
MBh 5.81.32
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम्
MBh 5.81.33
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा
MBh 5.81.34
यो नैव कामान्न भयान्न लोभान्नार्थकारणात्
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः
MBh 5.81.35
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः
ईश्वरः सर्वभूतानां देवदेवः प्रतापवान्
MBh 5.81.36
तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम्
संपरिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे
MBh 5.81.37
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला
उपवासतपःशीला सदा स्वस्त्ययने रता
MBh 5.81.38
देवतातिथिपूजासु गुरुशुश्रूषणे रता
वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन
MBh 5.81.39
सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन
महतो मृत्युसंबाधादुत्तरन्नौरिवार्णवात्
MBh 5.81.40
अस्मत्कृते च सततं यया दुःखानि माधव
अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम्
MBh 5.81.41
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम्
अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन्
MBh 5.81.42
ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम
निकारानतदर्हा च पश्यन्ती दुःखमश्नुते
MBh 5.81.43
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः
यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम
MBh 5.81.44
प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी
रुदतीमपहायैनामुपगच्छाम यद्वनम्
MBh 5.81.45
न नूनं म्रियते दुःखैः सा चेज्जीवति केशव
तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता
MBh 5.81.46
अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः
MBh 5.81.47
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम्
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक्
MBh 5.81.48
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्
अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन
MBh 5.81.49
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम्
MBh 5.81.50
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम्
अब्रवीत्परवीरघ्नं दाशार्हमपराजितम्
MBh 5.81.51
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु
MBh 5.81.52
तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात्
MBh 5.81.53
अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित्
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन
MBh 5.81.54
एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः
MBh 5.81.55
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान्
धनंजयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम्
MBh 5.81.56
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
MBh 5.81.57
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्
अनुज्ञातो निववृते परिष्वज्य जनार्दनम्
MBh 5.81.58
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः
तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः
MBh 5.81.59
ते हया वासुदेवस्य दारुकेण प्रचोदिताः
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम्
MBh 5.81.60
अथापश्यन्महाबाहुरृषीनध्वनि केशवः
ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि
MBh 5.81.61
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः
यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन्
MBh 5.81.62
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने
MBh 5.81.63
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः
भगवन्तः क्व संसिद्धाः का वीथी भवतामिह
MBh 5.81.64
किं वा भगवतां कार्यमहं किं करवाणि वः
केनार्थेनोपसंप्राप्ता भगवन्तो महीतलम्
MBh 5.81.65
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्
परिष्वज्य च गोविन्दं पुरा सुचरिते सखा
MBh 5.81.66
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः
राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः
MBh 5.81.67
देवासुरस्य द्रष्टारः पुराणस्य महाद्युते
समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः
MBh 5.81.68
सभासदश्च राजानस्त्वां च सत्यं जनार्दन
एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव
MBh 5.81.69
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव
त्वयोच्यमानाः कुरुषु राजमध्ये परंतप
MBh 5.81.70
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः
त्वं च यादवशार्दूल सभायां वै समेष्यथ
MBh 5.81.71
तव वाक्यानि दिव्यानि तत्र तेषां च माधव
श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च
MBh 5.81.72
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम्
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 80
- Next chapter · Udyoga-Parva Ch 82 →
Sources and Connected Readings
Continue from these 72 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.81local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷