🪷 Mahābhārata · Udyoga-Parva · Chapter 79
The Book of the Effort · Parva 5 · 9 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 9 Shlokas
MBh 5.79.1
[सहदेव]
यद एतत कथितं राज्ञा धर्म एष सनातनः
यथा तु युद्धम एव सयात तथा कार्यम अरिंदम
MBh 5.79.2
यदि परशमम इच्छेयुः कुरवः पाण्डवैः सह
तथापि युद्धं दाशार्ह यॊजयेथाः सहैव तैः
MBh 5.79.3
कथं नु दृष्ट्वा पाञ्चालीं तथा कलिष्टां सभा गताम
अवधेन परशाम्येत मम मन्युः सुयॊधने
MBh 5.79.4
यदि भीमार्जुनौ कृष्ण धर्मराजश च धार्मिकः
धर्मम उत्सृज्य तेनाहं यॊद्धुम इच्छामि संयुगे
MBh 5.79.5
[सात्यकि]
सत्यम आह महाबाहॊ सहदेवॊ महामतिः
दुर्यॊधन वधे शान्तिस तस्य कॊपस्य मे भवेत
MBh 5.79.6
जानासि हि यथादृष्ट्वा चीराजिनधरान वने
तवापि मन्युर उद्भूतॊ दुःखितान परेक्ष्य पाण्डवान
MBh 5.79.7
तस्मान माद्री सुतः शूरॊ यद आह पुरुषर्षभः
वचनं सर्वयॊधानां तन मतं पुरुषॊत्तम
MBh 5.79.8
[व]
एवं वदति वाक्यं तु युयुधाने महामतौ
सुभीमः सिंहनादॊ ऽभूद यॊधानां तत्र सर्वशः
MBh 5.79.9
सर्वे हि सर्वतॊ वीरास तद वचः परत्यपूजयन
साधु साध्व इति शैनेयं हर्षयन्तॊ युयुत्सवः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 78
- Next chapter · Udyoga-Parva Ch 80 →
🪷 जय व्यास भगवान् 🪷