🪷 Mahābhārata · Udyoga-Parva · Chapter 65
The Book of the Effort · Parva 5 · 9 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 9 Shlokas
MBh 5.65.1
[व]
दुर्यॊधने धार्तराष्ट्रे तद वचॊ ऽपरतिनन्दति
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर नरेश्वराः
MBh 5.65.2
उत्थितेषु महाराज पृथिव्यां सर्वराजसु
रहिते संजयं राजा परिप्रष्टुं परचक्रमे
MBh 5.65.3
आशंसमानॊ विजयं तेषां पुत्र वशानुगाः
आत्मनश च परेषां च पाण्डवानां च निश्चयम
MBh 5.65.4
गावल्गणे बरूहि नः सारफल्गु; सवसेनायां यावद इहास्ति किं चित
तवं पाण्डवानां निपुणं वेत्थ सर्वं; किम एषां जयायः किम उ तेषां कनीयः
MBh 5.65.5
तवम एतयॊः सारवित सर्वदर्शी; धर्मार्थयॊर निपुणॊ निश्चयज्ञः
स मे पृष्टः संजय बरूहि सर्वं; युध्यमानाः कतरे ऽसमिन न सन्ति
MBh 5.65.6
न तवां बरूयां रहिते जातु किं चिद; असूया हि तवां परसहेत राजन
आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम आजमीढ
MBh 5.65.7
तौ ते ऽसुयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
तयॊस तु तवां संमिधौ तद वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम
MBh 5.65.8
ततस तन मतम आज्ञाय संजयस्यात्मजस्य च
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत
MBh 5.65.9
संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावद एषॊ ऽनुयुङ्क्ते
सर्वं यावद वेत्थ तस्मिन यथावद; याथातथ्यं वासुदेवे ऽरजुने च
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 64
- Next chapter · Udyoga-Parva Ch 66 →
🪷 जय व्यास भगवान् 🪷