🪷 Mahābhārata · Udyoga-Parva · Chapter 61

The Book of the Effort · Parva 5 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 5.61.1
वैशंपायन उवाच तथा तु पृच्छन्तमतीव पार्था;न्वैचित्रवीर्यं तमचिन्तयित्वा उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम्
MBh 5.61.2
मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात् विज्ञाय तेनास्मि तदैवमुक्त;स्तवान्तकालेऽप्रतिभास्यतीति
MBh 5.61.3
महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः
MBh 5.61.4
प्रसादितं ह्यस्य मया मनोऽभू;च्छुश्रूषया स्वेन च पौरुषेण ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः
MBh 5.61.5
निमेषमात्रं तमृषिप्रसाद;मवाप्य पाञ्चालकरूषमत्स्यान् निहत्य पार्थांश्च सपुत्रपौत्राँ;ल्लोकानहं शस्त्रजितान्प्रपत्स्ये
MBh 5.61.6
पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः यथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः
MBh 5.61.7
एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः
MBh 5.61.8
यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनंजयेन श्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन
MBh 5.61.9
यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन
MBh 5.61.10
यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात् स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम्
MBh 5.61.11
बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः यस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे
MBh 5.61.12
कर्ण उवाच असंशयं वृष्णिपतिर्यथोक्त;स्तथा च भूयश्च ततो महात्मा अहं यदुक्तः परुषं तु किंचि;त्पितामहस्तस्य फलं शृणोतु
MBh 5.61.13
न्यस्यामि शस्त्राणि न जातु संख्ये; पितामहो द्रक्ष्यति मां सभायाम् त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः
MBh 5.61.14
वैशंपायन उवाच इत्येवमुक्त्वा स महाधनुष्मा;न्हित्वा सभां स्वं भवनं जगाम भीष्मस्तु दुर्योधनमेव राज;न्मध्ये कुरूणां प्रहसन्नुवाच
MBh 5.61.15
सत्यप्रतिज्ञः किल सूतपुत्र;स्तथा स भारं विषहेत कस्मात् व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात्
MBh 5.61.16
आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च अहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान्
MBh 5.61.17
यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य
MBh 5.61.18
अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे वैचित्रवीर्यस्य सुतोऽल्पबुद्धि;र्दुर्योधनः शांतनवं बभाषे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.61local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷