🪷 Mahābhārata · Udyoga-Parva · Chapter 56

The Book of the Effort · Parva 5 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 60 Shlokas

MBh 5.56.1
धृतराष्ट्र उवाच कांस्तत्र संजयापश्यः प्रत्यर्थेन समागतान् ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम्
MBh 5.56.2
संजय उवाच मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् चेकितानं च तत्रैव युयुधानं च सात्यकिम्
MBh 5.56.3
पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ महारथौ समाख्यातावुभौ पुरुषमानिनौ
MBh 5.56.4
अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः
MBh 5.56.5
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः
MBh 5.56.6
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः
MBh 5.56.7
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः
MBh 5.56.8
जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट् पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ
MBh 5.56.9
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः
MBh 5.56.10
एतानेतावतस्तत्र यानपश्यं समागतान् ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्
MBh 5.56.11
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः
MBh 5.56.12
भीष्मः शांतनवो राजन्भागः कॢप्तः शिखण्डिनः तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः
MBh 5.56.13
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति
MBh 5.56.14
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः
MBh 5.56.15
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः
MBh 5.56.16
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः
MBh 5.56.17
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे
MBh 5.56.18
तेषामेव कृतो भागो मालवाः शाल्वकेकयाः त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति
MBh 5.56.19
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च सौभद्रेण कृतो भागो राजा चैव बृहद्बलः
MBh 5.56.20
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत
MBh 5.56.21
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति भोजं तु कृतवर्माणं युयुधानो युयुत्सति
MBh 5.56.22
सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम्
MBh 5.56.23
उलूकं चापि कैतव्यं ये च सारस्वता गणाः नकुलः कल्पयामास भागं माद्रवतीसुतः
MBh 5.56.24
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन्
MBh 5.56.25
एवमेषामनीकानि प्रविभक्तानि भागशः यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम्
MBh 5.56.26
धृतराष्ट्र उवाच न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः येषां युद्धं बलवता भीमेन रणमूर्धनि
MBh 5.56.27
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम्
MBh 5.56.28
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि
MBh 5.56.29
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः
MBh 5.56.30
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ
MBh 5.56.31
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः
MBh 5.56.32
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः
MBh 5.56.33
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः
MBh 5.56.34
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि
MBh 5.56.35
तान्सर्वान्गुणसंपन्नानमनुष्यप्रतापिनः क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति संजय
MBh 5.56.36
दुर्योधन उवाच उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम्
MBh 5.56.37
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् जयद्रथं सोमदत्तमश्वत्थामानमेव च
MBh 5.56.38
सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः
MBh 5.56.39
सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम्
MBh 5.56.40
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे
MBh 5.56.41
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना
MBh 5.56.42
महता रथवंशेन शरजालैश्च मामकैः अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह
MBh 5.56.43
धृतराष्ट्र उवाच उन्मत्त इव मे पुत्रो विलपत्येष संजय न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम्
MBh 5.56.44
जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्
MBh 5.56.45
यतो नारोचयमहं विग्रहं तैर्महात्मभिः किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम्
MBh 5.56.46
कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान् अर्चिष्मतो महेष्वासान्हविषा पावकानिव
MBh 5.56.47
संजय उवाच धृष्टद्युम्नः सदैवैतान्संदीपयति भारत युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः
MBh 5.56.48
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः युद्धे समागमिष्यन्ति तुमुले कवचह्रदे
MBh 5.56.49
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान्
MBh 5.56.50
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् एतांश्चापि निरोत्स्यामि वेलेव मकरालयम्
MBh 5.56.51
तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह सर्वे समधिरूढाः स्म संग्रामान्नः समुद्धर
MBh 5.56.52
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् भवता यद्विधातव्यं तन्नः श्रेयः परंतप
MBh 5.56.53
संग्रामादपयातानां भग्नानां शरणैषिणाम् पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम्
MBh 5.56.54
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ भयार्तानां परित्राता संयुगेषु न संशयः
MBh 5.56.55
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः
MBh 5.56.56
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः
MBh 5.56.57
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् दुःशासनं विकर्णं च तथा दुर्योधनं नृपम्
MBh 5.56.58
भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम्
MBh 5.56.59
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः
MBh 5.56.60
देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 60 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.56local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷