🪷 Mahābhārata · Udyoga-Parva · Chapter 54
The Book of the Effort · Parva 5 · 66 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 66 Shlokas
MBh 5.54.1
दुर्योधन उवाच
न भेतव्यं महाराज न शोच्या भवता वयम्
समर्थाः स्म परान्राजन्विजेतुं समरे विभो
MBh 5.54.2
वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः
महता बलचक्रेण परराष्ट्रावमर्दिना
MBh 5.54.3
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः
MBh 5.54.4
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह
MBh 5.54.5
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम्
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत
MBh 5.54.6
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः
MBh 5.54.7
श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ
MBh 5.54.8
न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति
MBh 5.54.9
ऋते च विदुरं सर्वे यूयं वध्या महात्मनः
धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः
MBh 5.54.10
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे
MBh 5.54.11
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम्
प्राणान्वा संपरित्यज्य प्रतियुध्यामहे परान्
MBh 5.54.12
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः
MBh 5.54.13
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः
MBh 5.54.14
प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम्
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम्
MBh 5.54.15
कृतं हि तव पुत्रैश्च परेषामवरोधनम्
मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम
MBh 5.54.16
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः
MBh 5.54.17
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम्
MBh 5.54.18
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परंतप
असमर्थाः परे जेतुमस्मान्युधि जनेश्वर
MBh 5.54.19
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान्
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः
MBh 5.54.20
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः
मृते पितर्यभिक्रुद्धो रथेनैकेन भारत
MBh 5.54.21
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात्
MBh 5.54.22
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ
इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम्
MBh 5.54.23
पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः
MBh 5.54.24
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ
एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः
MBh 5.54.25
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परंतप
मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम
MBh 5.54.26
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम्
विलपन्तं बहुविधं भीतं परविकत्थने
MBh 5.54.27
एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम्
MBh 5.54.28
सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात्
हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा
MBh 5.54.29
युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो
MBh 5.54.30
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम्
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत
MBh 5.54.31
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन
MBh 5.54.32
युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित्
MBh 5.54.33
दुर्योधनसमो नास्ति गदायामिति निश्चयः
संकर्षणस्य भद्रं ते यत्तदैनमुपावसम्
MBh 5.54.34
युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि
गदाप्रहारं भीमो मे न जातु विषहेद्युधि
MBh 5.54.35
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप
स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम्
MBh 5.54.36
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम्
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः
MBh 5.54.37
गदया निहतो ह्याजौ मम पार्थो वृकोदरः
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति
MBh 5.54.38
गदाप्रहाराभिहतो हिमवानपि पर्वतः
सकृन्मया विशीर्येत गिरिः शतसहस्रधा
MBh 5.54.39
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा
दुर्योधनसमो नास्ति गदायामिति निश्चयः
MBh 5.54.40
तत्ते वृकोदरमयं भयं व्येतु महाहवे
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव
MBh 5.54.41
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ
MBh 5.54.42
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः
MBh 5.54.43
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान्
समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम्
MBh 5.54.44
समग्रा पार्थिवी सेना पार्थमेकं धनंजयम्
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते
MBh 5.54.45
शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम्
MBh 5.54.46
पितामहो हि गाङ्गेयः शंतनोरधि भारत
ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि
MBh 5.54.47
ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित्
MBh 5.54.48
कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः
MBh 5.54.49
अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः
अश्वत्थाम्नो महाराज स च शूरः स्थितो मम
MBh 5.54.50
सर्व एते महाराज देवकल्पा महारथाः
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ
MBh 5.54.51
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम
अनुज्ञातश्च रामेण मत्समोऽसीति भारत
MBh 5.54.52
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे
ते शच्यर्थे महेन्द्रेण याचितः स परंतपः
अमोघया महाराज शक्त्या परमभीमया
MBh 5.54.53
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनंजयः
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम्
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः
MBh 5.54.54
अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि
MBh 5.54.55
संशप्तानि च वृन्दानि क्षत्रियाणां परंतप
अर्जुनं वयमस्मान्वा धनंजय इति स्म ह
MBh 5.54.56
तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो
पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम्
MBh 5.54.57
भीमसेने च निहते कोऽन्यो युध्येत भारत
परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप
MBh 5.54.58
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः
परेषां सप्त ये राजन्योधाः परमकं बलम्
MBh 5.54.59
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः
द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः
MBh 5.54.60
प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः
दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते
MBh 5.54.61
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः
शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः
MBh 5.54.62
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः
न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः
MBh 5.54.63
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी
MBh 5.54.64
गुणहीनं परेषां च बहु पश्यामि भारत
गुणोदयं बहुगुणमात्मनश्च विशां पते
MBh 5.54.65
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि
MBh 5.54.66
वैशंपायन उवाच
इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत
विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 53
- Next chapter · Udyoga-Parva Ch 55 →
Sources and Connected Readings
Continue from these 66 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.54local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷