🪷 Mahābhārata · Udyoga-Parva · Chapter 39

The Book of the Effort · Parva 5 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 70 Shlokas

MBh 5.39.1
धृतराष्ट्र उवाच अनीश्वरोऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा धात्रा तु दिष्टस्य वशे किलायं; तस्माद्वद त्वं श्रवणे धृतोऽहम्
MBh 5.39.2
विदुर उवाच अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् लभते बुद्ध्यवज्ञानमवमानं च भारत
MBh 5.39.3
प्रियो भवति दानेन प्रियवादेन चापरः मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः
MBh 5.39.4
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत
MBh 5.39.5
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत्
MBh 5.39.6
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत्
MBh 5.39.7
धृतराष्ट्र उवाच सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम् न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः
MBh 5.39.8
विदुर उवाच स्वभावगुणसंपन्नो न जातु विनयान्वितः सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते
MBh 5.39.9
परापवादनिरताः परदुःखोदयेषु च परस्परविरोधे च यतन्ते सततोत्थिताः
MBh 5.39.10
सदोषं दर्शनं येषां संवासे सुमहद्भयम् अर्थादाने महान्दोषः प्रदाने च महद्भयम्
MBh 5.39.11
ये पापा इति विख्याताः संवासे परिगर्हिताः युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्
MBh 5.39.12
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम्
MBh 5.39.13
यतते चापवादाय यत्नमारभते क्षये अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति
MBh 5.39.14
तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत्
MBh 5.39.15
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् स पुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते
MBh 5.39.16
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर
MBh 5.39.17
श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ
MBh 5.39.18
किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः प्रसादं कुरु दीनानां पाण्डवानां विशां पते
MBh 5.39.19
दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर एवं लोके यशःप्राप्तो भविष्यसि नराधिप
MBh 5.39.20
वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्
MBh 5.39.21
ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ
MBh 5.39.22
संभोजनं संकथनं संप्रीतिश्च परस्परम् ज्ञातिभिः सह कार्याणि न विरोधः कथंचन
MBh 5.39.23
ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च
MBh 5.39.24
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि
MBh 5.39.25
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति दिग्धहस्तं मृग इव स एनस्तस्य विन्दति
MBh 5.39.26
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय
MBh 5.39.27
येन खट्वां समारूढः परितप्येत कर्मणा आदावेव न तत्कुर्यादध्रुवे जीविते सति
MBh 5.39.28
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति
MBh 5.39.29
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर
MBh 5.39.30
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम्
MBh 5.39.31
सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति
MBh 5.39.32
अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम्
MBh 5.39.33
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया परीक्षेत कुलं राजन्भोजनाच्छादनेन च
MBh 5.39.34
ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते
MBh 5.39.35
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति
MBh 5.39.36
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः
MBh 5.39.37
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते
MBh 5.39.38
इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि
MBh 5.39.39
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना
MBh 5.39.40
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते मतिमास्थाय सुदृढां तदकापुरुषव्रतम्
MBh 5.39.41
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते
MBh 5.39.42
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते तदेवापहरत्येनं तस्मात्कल्याणमाचरेत्
MBh 5.39.43
मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम्
MBh 5.39.44
अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते
MBh 5.39.45
नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं तथा प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा
MBh 5.39.46
क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता
MBh 5.39.47
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते कामं तदुपसेवेत न मूढव्रतमाचरेत्
MBh 5.39.48
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः
MBh 5.39.49
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः
MBh 5.39.50
अत्यार्यमतिदातारमतिशूरमतिव्रतम् प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति
MBh 5.39.51
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् रतिपुत्रफला दारा दत्तभुक्तफलं धनम्
MBh 5.39.52
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात्
MBh 5.39.53
कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम्
MBh 5.39.54
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत्
MBh 5.39.55
तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् हिंसा बलमसाधूनां क्षमा गुणवतां बलम्
MBh 5.39.56
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्
MBh 5.39.57
न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः संग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते
MBh 5.39.58
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम्
MBh 5.39.59
स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके
MBh 5.39.60
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि संप्रवर्धन्ते कीर्तिरायुर्यशोबलम्
MBh 5.39.61
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः
MBh 5.39.62
अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम्
MBh 5.39.63
अध्वा जरा देहवतां पर्वतानां जलं जरा असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा
MBh 5.39.64
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः
MBh 5.39.65
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम्
MBh 5.39.66
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् नेन्धनेन जयेदग्निं न पानेन सुरां जयेत्
MBh 5.39.67
यस्य दानजितं मित्रममित्रा युधि निर्जिताः अन्नपानजिता दाराः सफलं तस्य जीवितम्
MBh 5.39.68
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा धृतराष्ट्रं विमुञ्चेच्छां न कथंचिन्न जीव्यते
MBh 5.39.69
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति
MBh 5.39.70
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 70 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.39local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷