🪷 Mahābhārata · Udyoga-Parva · Chapter 22

The Book of the Effort · Parva 5 · 39 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 39 Shlokas

MBh 5.22.1
[धृ] पराप्तान आहुः संजय पाण्डुपुत्रान; उपप्लव्ये तान विजानीहि गत्वा अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ गरामम उपस्थितस तवम
MBh 5.22.2
सर्वान वदेः संजय सवस्तिमन्तः; कृच्छ्रं वासम अतदर्हा निरुष्य तेषां शान्तिर विद्यते ऽसमासु शीघ्रं; मिथ्यॊपेतानाम उपकारिणां सताम
MBh 5.22.3
नाहं कव चित संजय पाण्डवानां; मिथ्यावृत्तिं कां चन जात्व अपश्यम सर्वां शरियं हय आत्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यम एव
MBh 5.22.4
दॊषं हय एषां नाधिगच्छे परिक्षन; नित्यं कं चिद येन गर्हेय पार्थान धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान
MBh 5.22.5
धर्मं शीतं कषुत्पिपासे तथैव; निद्रां तन्द्रीं करॊधहर्षौ परमादम धृत्या चैव परज्ञया चाभिभूय; धर्मार्थयॊगान परयतन्ति पार्थाः
MBh 5.22.6
तयजन्ति मित्रेषु धनानि काले; न संवासाज जीर्यति मैत्रम एषाम यथार्ह मानार्थ करा हि पार्थास; तेषां दवेष्टा नास्त्य आजमीढस्य पक्षे
MBh 5.22.7
अन्यत्र पापाद विषमान मन्दबुद्धेर; दुर्यॊधनात कषुद्रतराच च कर्णात तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः
MBh 5.22.8
उत्थानवीर्यः सुखम एधमानॊ; दुर्यॊधनः सुकृतं मन्यते तत तेषां भागं यच च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम
MBh 5.22.9
यस्यार्जुनः पदवीं केशवश च; वृकॊदरः सात्यकॊ ऽजातशत्रॊः माद्रीपुत्रौ सृञ्जयाश चापि सर्वे; पुरा युद्धात साधु तस्य परदानम
MBh 5.22.10
स हय एवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा परणुदेद रथस्थः तथा विष्णुः केशवॊ ऽपय अप्रधृष्यॊ; लॊकत्रयस्याधिपतिर महात्मा
MBh 5.22.11
तिष्ठेत कस तस्य मर्त्यः पुरस्ताद; यः सर्वदेवेषु वरेण्य ईड्यः पर्जन्यघॊषान परवपञ शरौघान; पतंगसंघान इव शीघ्रवेगान
MBh 5.22.12
दिशं हय उदीचीम अपि चॊत्तरान कुरून; गाण्डीवधन्वैक रथॊ जिगाय धनं चैषाम आहरत सव्यसाची; सेनानुगान बलिदांश चैव चक्रे
MBh 5.22.13
यश चैव देवान खाण्डवे सव्यसाची; गाण्डीवधन्वा परजिगाय सेन्द्रान उपाहरत फल्गुनॊ जातवेदसे; यशॊ मानं वर्धयन पाण्डवानाम
MBh 5.22.14
गदा भृतां नाद्य समॊ ऽसति; भीमाद धस्त्य आरॊहॊ नास्ति समश च तस्य रथे ऽरजुनाद आहुर अहीनम एनं; बाह्वॊर बले चायुत नागवीर्यम
MBh 5.22.15
सुशिक्षितः कृतवैरस तरस्वी; दहेत करुद्धस तरसा धार्तराष्ट्रान सदात्यमर्षी बलवान न शक्यॊ; युद्धे जेतुं वासवेनापि साक्षात
MBh 5.22.16
सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भरातरौ फल्गुनेन शयेनौ यथा पक्षिपूगान रुजन्तौ; माद्रीपुत्रौ नेह कुरून विशेताम
MBh 5.22.17
तेषां मध्ये वर्तमानस तरस्वी; धृष्टद्युम्नः पाण्डवानाम इहैकः सहामात्यः सॊमकानां परबर्हः; संत्यक्तात्मा पाण्डवानां जयाय
MBh 5.22.18
सहॊषितश चरितार्थॊ वयः सथः; शाल्वेयानाम अधिपॊ वै विराटः सह पुत्रैः पाण्डवार्थे च शश्वद; युधिष्ठिरं भक्त इति शरुतं मे
MBh 5.22.19
अवरुद्धा बलिनः केकयेभ्यॊ; महेष्वासा भरातरः पञ्च सन्ति केकयेभ्यॊ राज्यम आकाङ्क्षमाणा; युद्धार्थिनश चानुवसन्ति पार्थान
MBh 5.22.20
सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः शूरान अहं भक्तिमतः शृणॊमि; परीत्या युक्तान संश्रितान धर्मराजम
MBh 5.22.21
गिर्याश्रया दुर्ग निवासिनश च; यॊधाः पृथिव्यां कुलजा विशुद्धाः मलेच्छाश च नानायुध वीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः
MBh 5.22.22
पाण्ड्यश च राजामित इन्द्रकल्पॊ; युधि परवीरैर बहुभिः समेतः समागतः पाण्डवार्थे महात्मा; लॊकप्रवीरॊ ऽपरतिवीर्य तेजाः
MBh 5.22.23
अस्त्रं दरॊणाद अर्जुनाद वासुदेवात; कृपाद भीष्माद येन कृतं शृणॊमि यं तं कार्ष्णि परतिमं पराहुर एकं; स सात्यकिः पाण्डवार्थे निविष्टः
MBh 5.22.24
अपाश्रिताश चेदिकरूषकाश च; सर्वॊत्साहैर भूमिपालैः समेताः तेषां मध्ये सूर्यम इवातपन्तं; शरिया वृतं चेदिपतिं जवलन्तम
MBh 5.22.25
अस्तम्भनीयं युधि मन्यमानं; जया कर्षतां शरेष्ठतमं पृथिव्याम सर्वॊत्साहं कषत्रियाणां निहत्य; परसह्य कृष्णस तरसा ममर्द
MBh 5.22.26
यशॊ मानौ वर्धयन यादवानां; पुराभिनच छिशुपालं समीके यस्य सर्वे वर्धयन्ति सम मानं; करूष राजप्रमुखा नरेन्द्राः
MBh 5.22.27
तम असह्यं केशवं तत्र मत्वा; सुग्रीव युक्तेन रथेन कृष्णम संप्राद्रवंश चेदिपतिं विहाय; सिंहं दृष्ट्वा कषुद्रमृगा इवान्ये
MBh 5.22.28
यस तं परतीपस तरसा परत्युदीयाद; आशंसमानॊ दवैरथे वासुदेवम सॊ ऽशेत कृष्णेन हतः परासुर; वातेनेवॊन्मथितः कर्णिकारः
MBh 5.22.29
पराक्रमं मे यद अवेदयन्त; तेषाम अर्थे संजय केशवस्य अनुस्मरंस तस्य कर्माणि विष्णॊर; गावल्गणे नाधिगच्छामि शान्तिम
MBh 5.22.30
न जातु ताञ शत्रुर अन्यः सहेत; येषां स सयाद अग्रणीर वृष्णिसिंहः परवेपते मे हृदयं भयेन; शरुत्वा कृष्णाव एकरथे समेतौ
MBh 5.22.31
नॊ चेद गच्छेत संगरं मन्दबुद्धिस; ताभ्यां सुतॊ मे विपरीतचेताः नॊ चेत कुरून संजय निर्दहेताम; इन्द्रा विष्णू दैत्य सेनां यथैव मतॊ हि मे शक्रसमॊ धनंजयः; सनातनॊ वृष्णिवीरश च विष्णुः
MBh 5.22.32
धर्मारामॊ हरीनिषेधस तरस्वी; कुन्तीपुत्रः पाण्डवॊ ऽजातशत्रुः दुर्यॊधनेन निकृतॊ मनस्वी; नॊ चेत करुद्ध परदहेद धार्तराष्ट्रान
MBh 5.22.33
नाहं तथा हय अर्जुनाद वासुदेवाद; भीमाद वापि परदहेद धार्तराष्ट्रान यथा राज्ञः करॊधदीप्तस्य सूत; मन्यॊर अहं भीततरः सदैव
MBh 5.22.34
अलं तपॊ बरह्मचर्येण युक्तः; संकल्पॊ ऽयं मानसस तस्य सिध्येत तस्य करॊधं संजयाहं सिमीके; सथाने जानभृशम अस्म्य अद्य भीतः
MBh 5.22.35
स गच्छ शीघ्रं परहितॊ रथेन; पाञ्चालराजस्य चमूं परेत्य अजातशत्रुं कुशलं सम पृच्छेः; पुनः पुनः परीतियुक्तं वदेस तवम
MBh 5.22.36
जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवताम उदारम अनामयं मद्वचनेन पृच्छेर; धृतराष्ट्रः पाण्डवैः शान्तिम ईप्सुः
MBh 5.22.37
न तस्य किं चिद वचनं न कुर्यात; कुन्तीपुत्रॊ वासुदेवस्य सूत परियश चैषाम आत्मसमश च कृष्णॊ; विद्वांश चैषां कर्मणि नित्ययुक्तः
MBh 5.22.38
समानीय पाणवान सृञ्जयांश च; जनार्दनं युयुधानं विराटम अनामयं मद्वचनेन पृच्छेः; सर्वांस तथा दरौपदेयांश च पञ्च
MBh 5.22.39
यद यत तत्र पराप्तकालं परेभ्यस; तवं मन्येथा भारतानां हितं च तत तद भाषेथाः संजय राजमध्ये; न मूर्छयेद यन न भवेच च युद्धम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷