🪷 Mahābhārata · Udyoga-Parva · Chapter 186
The Book of the Effort · Parva 5 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 36 Shlokas
MBh 5.186.1
भीष्म उवाच
ततो हलहलाशब्दो दिवि राजन्महानभूत्
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन
MBh 5.186.2
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत्
MBh 5.186.3
एते वियति कौरव्य दिवि देवगणाः स्थिताः
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय
MBh 5.186.4
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते
तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन
MBh 5.186.5
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन्
MBh 5.186.6
यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु
एतद्धि परमं श्रेयो लोकानां भरतर्षभ
MBh 5.186.7
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे
ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि
MBh 5.186.8
ततो रामो रुषितो राजपुत्र; दृष्ट्वा तदस्त्रं विनिवर्तितं वै
जितोऽस्मि भीष्मेण सुमन्दबुद्धि;रित्येव वाक्यं सहसा व्यमुञ्चत्
MBh 5.186.9
ततोऽपश्यत्पितरं जामदग्न्यः; पितुस्तथा पितरं तस्य चान्यम्
त एवैनं संपरिवार्य तस्थु;रूचुश्चैनं सान्त्वपूर्वं तदानीम्
MBh 5.186.10
मा स्मैवं साहसं वत्स पुनः कार्षीः कथंचन
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः
MBh 5.186.11
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन
स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम्
MBh 5.186.12
इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम्
शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया
MBh 5.186.13
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे
विमर्दस्ते महाबाहो व्यपयाहि रणादितः
MBh 5.186.14
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम्
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव
MBh 5.186.15
एष भीष्मः शांतनवो देवैः सर्वैर्निवारितः
निवर्तस्व रणादस्मादिति चैव प्रचोदितः
MBh 5.186.16
रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे
MBh 5.186.17
वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक
MBh 5.186.18
गाङ्गेयः शंतनोः पुत्रो वसुरेष महायशाः
कथं त्वया रणे जेतुं राम शक्यो निवर्त वै
MBh 5.186.19
अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः
MBh 5.186.20
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्
भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा
MBh 5.186.21
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम्
नाहं युधि निवर्तेयमिति मे व्रतमाहितम्
MBh 5.186.22
न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन
MBh 5.186.23
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा
नारदेनैव सहिताः समागम्येदमब्रुवन्
MBh 5.186.24
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान्
नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया
MBh 5.186.25
मम व्रतमिदं लोके नाहं युद्धात्कथंचन
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः
MBh 5.186.26
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात्
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः
MBh 5.186.27
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप
भागीरथी च मे माता रणमध्यं प्रपेदिरे
MBh 5.186.28
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन्
समेत्य सहिता भूयः समरे भृगुनन्दनम्
MBh 5.186.29
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम
अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव
MBh 5.186.30
एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम्
न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम्
MBh 5.186.31
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान्
MBh 5.186.32
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम्
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु
MBh 5.186.33
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै
लोकानां च हितं कुर्वन्नहमप्याददे वचः
MBh 5.186.34
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः
MBh 5.186.35
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया
MBh 5.186.36
मम चैव समक्षं तां कन्यामाहूय भार्गवः
उवाच दीनया वाचा मध्ये तेषां तपस्विनाम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 185
- Next chapter · Udyoga-Parva Ch 187 →
Sources and Connected Readings
Continue from these 36 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.186local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷