🪷 Mahābhārata · Udyoga-Parva · Chapter 178
The Book of the Effort · Parva 5 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 5.178.1
भीष्म उवाच
ततस्तृतीये दिवसे समे देशे व्यवस्थितः
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः
MBh 5.178.2
तमागतमहं श्रुत्वा विषयान्तं महाबलम्
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम्
MBh 5.178.3
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः
MBh 5.178.4
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान्
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत्
MBh 5.178.5
भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया
अकामेयमिहानीता पुनश्चैव विसर्जिता
MBh 5.178.6
विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात्
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति
MBh 5.178.7
प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत
MBh 5.178.8
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम्
न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ
MBh 5.178.9
ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम्
नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन
MBh 5.178.10
शाल्वस्याहमिति प्राह पुरा मामिह भार्गव
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति
MBh 5.178.11
न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया
क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम्
MBh 5.178.12
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः
न करिष्यसि चेदेतद्वाक्यं मे कुरुपुंगव
MBh 5.178.13
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः
MBh 5.178.14
तमहं गीर्भिरिष्टाभिः पुनः पुनररिंदमम्
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः
MBh 5.178.15
तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम्
अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि
MBh 5.178.16
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम्
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव
MBh 5.178.17
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते
MBh 5.178.18
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः
त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति
MBh 5.178.19
तथा ब्रुवन्तं तमहं रामं परपुरंजयम्
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते
MBh 5.178.20
गुरुत्वं त्वयि संप्रेक्ष्य जामदग्न्य पुरातनम्
प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया
MBh 5.178.21
को जातु परभावां हि नारीं व्यालीमिव स्थिताम्
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान्
MBh 5.178.22
न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम्
MBh 5.178.23
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना
MBh 5.178.24
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम्
MBh 5.178.25
स त्वं गुरुरिति प्रेम्णा मया संमानितो भृशम्
गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया
MBh 5.178.26
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव
MBh 5.178.27
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत्
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम्
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः
MBh 5.178.28
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन्
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति
MBh 5.178.29
अर्थे वा यदि वा धर्मे समर्थो देशकालवित्
अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च
MBh 5.178.30
यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम्
MBh 5.178.31
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह
द्वंद्वे राम यथेष्टं ते सज्जो भव महामुने
MBh 5.178.32
तत्र त्वं निहतो राम मया शरशताचितः
लप्स्यसे निर्जिताँल्लोकाञ्शस्त्रपूतो महारणे
MBh 5.178.33
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन
MBh 5.178.34
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव
MBh 5.178.35
तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव
MBh 5.178.36
यच्चापि कत्थसे राम बहुशः परिषत्सु वै
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु
MBh 5.178.37
न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत्
MBh 5.178.38
सोऽहं जातो महाबाहो भीष्मः परपुरंजयः
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 177
- Next chapter · Udyoga-Parva Ch 179 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.178local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷