🪷 Mahābhārata · Udyoga-Parva · Chapter 176

The Book of the Effort · Parva 5 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 42 Shlokas

MBh 5.176.1
अकृतव्रण उवाच दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे
MBh 5.176.2
यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया
MBh 5.176.3
अथापगेयं भीष्मं तं रामेणेच्छसि धीमता रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः
MBh 5.176.4
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम्
MBh 5.176.5
अम्बोवाच अपनीतास्मि भीष्मेण भगवन्नविजानता न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः
MBh 5.176.6
एतद्विचार्य मनसा भवानेव विनिश्चयम् विचिनोतु यथान्यायं विधानं क्रियतां तथा
MBh 5.176.7
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर
MBh 5.176.8
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः
MBh 5.176.9
अकृतव्रण उवाच उपपन्नमिदं भद्रे यदेवं वरवर्णिनि धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम
MBh 5.176.10
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः
MBh 5.176.11
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे
MBh 5.176.12
भीष्मः पुरुषमानी च जितकाशी तथैव च तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया
MBh 5.176.13
अम्बोवाच ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते घातयेयं यदि रणे भीष्ममित्येव नित्यदा
MBh 5.176.14
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता
MBh 5.176.15
भीष्म उवाच एवं कथयतामेव तेषां स दिवसो गतः रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता
MBh 5.176.16
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः
MBh 5.176.17
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम्
MBh 5.176.18
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी
MBh 5.176.19
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् अर्चितश्च यथायोगं निषसाद सहैव तैः
MBh 5.176.20
ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत
MBh 5.176.21
ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् उवाच मधुरं काले रामं वचनमर्थवत्
MBh 5.176.22
रामेयं मम दौहित्री काशिराजसुता प्रभो अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद
MBh 5.176.23
परमं कथ्यतां चेति तां रामः प्रत्यभाषत ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम्
MBh 5.176.24
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता
MBh 5.176.25
रुरोद सा शोकवती बाष्पव्याकुललोचना प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम्
MBh 5.176.26
राम उवाच यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव
MBh 5.176.27
अम्बोवाच भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो
MBh 5.176.28
भीष्म उवाच तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत्
MBh 5.176.29
किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः
MBh 5.176.30
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता सर्वमेव यथातत्त्वं कथयामास भार्गवे
MBh 5.176.31
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम्
MBh 5.176.32
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः
MBh 5.176.33
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा
MBh 5.176.34
अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि
MBh 5.176.35
अम्बोवाच विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन शाल्वराजगतं चेतो मम पूर्वं मनीषितम्
MBh 5.176.36
सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः
MBh 5.176.37
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि
MBh 5.176.38
ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः येनाहं वशमानीता समुत्क्षिप्य बलात्तदा
MBh 5.176.39
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम्
MBh 5.176.40
स हि लुब्धश्च मानी च जितकाशी च भार्गव तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ
MBh 5.176.41
एष मे ह्रियमाणाया भारतेन तदा विभो अभवद्धृदि संकल्पो घातयेयं महाव्रतम्
MBh 5.176.42
तस्मात्कामं ममाद्येमं राम संवर्तयानघ जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 42 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.176local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷