🪷 Mahābhārata · Udyoga-Parva · Chapter 171
The Book of the Effort · Parva 5 · 9 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 9 Shlokas
MBh 5.171.1
भीष्म उवाच
ततॊ ऽहं भरतश्रेष्ठ मातरं वीरमातरम
अभिगम्यॊपसंगृह्य दाशेयीम इदम अब्रुवम
MBh 5.171.2
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान
विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः
MBh 5.171.3
ततॊ मूर्धन्य उपाघ्राय पर्यश्रुनयना नृप
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं तवया
MBh 5.171.4
सत्यवत्यास तव अनुमते विवाहे समुपस्थिते
उवाच वाक्यं सव्रीडा जयेष्ठा काशिपतेः सुता
MBh 5.171.5
भीष्म तवम असि धर्मज्ञः सर्वशास्त्रविशारदः
शरुत्वा च धर्म्यं वचनं मह्यं कर्तुम इहार्हसि
MBh 5.171.6
मया शाल्वपतिः पूर्वं मनसाभिवृतॊ वरः
तेन चास्मि वृता पूर्वं रहस्य अविदिते पितुः
MBh 5.171.7
कथं माम अन्यकामां तवं राजञ शास्त्रम अधीत्य वै
वासयेथा गृहे भीष्म कौरवः सन विशेषतः
MBh 5.171.8
एतद बुद्ध्या विनिश्चित्य मनसा भरतर्षभ
यत कषमं ते महाबाहॊ तद इहारब्धुम अर्हसि
MBh 5.171.9
स मां परतीक्षते वयक्तं शाल्वराजॊ विशां पते
कृपां कुरु महाबाहॊ मयि धर्मभृतां वर
तवं हि सत्यव्रतॊ वीर पृथिव्याम इति नः शरुतम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 170
- Next chapter · Udyoga-Parva Ch 172 →
🪷 जय व्यास भगवान् 🪷