🪷 Mahābhārata · Udyoga-Parva · Chapter 163

The Book of the Effort · Parva 5 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 5.163.1
भीष्म उवाच सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः
MBh 5.163.2
एतस्य रथसिंहस्य तवार्थे राजसत्तम पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि
MBh 5.163.3
एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् काम्बोजानां महाराज शलभानामिवायतिः
MBh 5.163.4
नीलो माहिष्मतीवासी नीलवर्मधरस्तव रथवंशेन शत्रूणां कदनं वै करिष्यति
MBh 5.163.5
कृतवैरः पुरा चैव सहदेवेन पार्थिवः योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम
MBh 5.163.6
विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ कृतिनौ समरे तात दृढवीर्यपराक्रमौ
MBh 5.163.7
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः
MBh 5.163.8
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ यूथमध्ये महाराज विचरन्तौ कृतान्तवत्
MBh 5.163.9
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम कृतवैराश्च पार्थेन विराटनगरे तदा
MBh 5.163.10
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम्
MBh 5.163.11
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम्
MBh 5.163.12
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह दिशो विजयता राजञ्श्वेतवाहेन भारत
MBh 5.163.13
ते हनिष्यन्ति पार्थानां समासाद्य महारथान् वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः
MBh 5.163.14
लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ
MBh 5.163.15
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः
MBh 5.163.16
रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः
MBh 5.163.17
दण्डधारो महाराज रथ एको नरर्षभः योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः
MBh 5.163.18
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः रथो मम मतस्तात दृढवेगपराक्रमः
MBh 5.163.19
एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन् उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः
MBh 5.163.20
कृपः शारद्वतो राजन्रथयूथपयूथपः प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव
MBh 5.163.21
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत्
MBh 5.163.22
एष सेनां बहुविधां विविधायुधकार्मुकाम् अग्निवत्समरे तात चरिष्यति विमर्दयन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.163local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷