🪷 Mahābhārata · Udyoga-Parva · Chapter 155
The Book of the Effort · Parva 5 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 38 Shlokas
MBh 5.155.1
वैशंपायन उवाच
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः
हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै
MBh 5.155.2
आहृतीनामधिपतेर्भोजस्यातियशस्विनः
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः
MBh 5.155.3
यः किंपुरुषसिंहस्य गन्धमादनवासिनः
शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान्
MBh 5.155.4
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा
शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम्
MBh 5.155.5
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः
MBh 5.155.6
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः
धारयामास यत्कृष्णः परसेनाभयावहम्
MBh 5.155.7
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत
MBh 5.155.8
संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले
MBh 5.155.9
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम्
MBh 5.155.10
रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम्
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत
MBh 5.155.11
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता
MBh 5.155.12
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम्
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम्
MBh 5.155.13
सेनया चतुरङ्गिण्या महत्या दूरपातया
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया
MBh 5.155.14
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम्
MBh 5.155.15
यत्रैव कृष्णेन रणे निर्जितः परवीरहा
तत्र भोजकटं नाम चक्रे नगरमुत्तमम्
MBh 5.155.16
सैन्येन महता तेन प्रभूतगजवाजिना
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप
MBh 5.155.17
स भोजराजः सैन्येन महता परिवारितः
अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत्
MBh 5.155.18
ततः स कवची खड्गी शरी धन्वी तली रथी
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम्
MBh 5.155.19
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्
MBh 5.155.20
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः
प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः
उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम्
MBh 5.155.21
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः
MBh 5.155.22
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन
निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन
MBh 5.155.23
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः
MBh 5.155.24
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम्
MBh 5.155.25
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
सहायो घोषयात्रायां कस्तदासीत्सखा मम
MBh 5.155.26
तथा प्रतिभये तस्मिन्देवदानवसंकुले
खाण्डवे युध्यमानस्य कः सहायस्तदाभवत्
MBh 5.155.27
निवातकवचैर्युद्धे कालकेयैश्च दानवैः
तत्र मे युध्यमानस्य कः सहायस्तदाभवत्
MBh 5.155.28
तथा विराटनगरे कुरुभिः सह संगरे
युध्यतो बहुभिस्तात कः सहायोऽभवन्मम
MBh 5.155.29
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्
वरुणं पावकं चैव कृपं द्रोणं च माधवम्
MBh 5.155.30
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः
MBh 5.155.31
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान्
MBh 5.155.32
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम्
वचनं नरशार्दूल वज्रायुधमपि स्वयम्
MBh 5.155.33
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे
यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा
MBh 5.155.34
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्
दुर्योधनमुपागच्छत्तथैव भरतर्षभ
MBh 5.155.35
तथैव चाभिगम्यैनमुवाच स नराधिपः
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना
MBh 5.155.36
द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः
MBh 5.155.37
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा
उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि
MBh 5.155.38
समितिर्धर्मराजस्य सा पार्थिवसमाकुला
शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 154
- Next chapter · Udyoga-Parva Ch 156 →
Sources and Connected Readings
Continue from these 38 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.155local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷