🪷 Mahābhārata · Udyoga-Parva · Chapter 153

The Book of the Effort · Parva 5 · 35 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 35 Shlokas

MBh 5.153.1
वैशंपायन उवाच ततः शांतनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः सह सर्वैर्महीपालैरिदं वचनमब्रवीत्
MBh 5.153.2
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा
MBh 5.153.3
न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम्
MBh 5.153.4
श्रूयते च महाप्राज्ञ हैहयानमितौजसः अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः
MBh 5.153.5
तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः
MBh 5.153.6
ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम्
MBh 5.153.7
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह
MBh 5.153.8
वयमेकस्य शृणुमो महाबुद्धिमतो रणे भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः
MBh 5.153.9
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः
MBh 5.153.10
एवं ये कुशलं शूरं हिते स्थितमकल्मषम् सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून्
MBh 5.153.11
भवानुशनसा तुल्यो हितैषी च सदा मम असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव
MBh 5.153.12
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः कुबेर इव यक्षाणां मरुतामिव वासवः
MBh 5.153.13
पर्वतानां यथा मेरुः सुपर्णः पततामिव कुमार इव भूतानां वसूनामिव हव्यवाट्
MBh 5.153.14
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम्
MBh 5.153.15
प्रयातु नो भवानग्रे देवानामिव पावकिः वयं त्वामनुयास्यामः सौरभेया इवर्षभम्
MBh 5.153.16
भीष्म उवाच एवमेतन्महाबाहो यथा वदसि भारत यथैव हि भवन्तो मे तथैव मम पाण्डवाः
MBh 5.153.17
अपि चैव मया श्रेयो वाच्यं तेषां नराधिप योद्धव्यं तु तवार्थाय यथा स समयः कृतः
MBh 5.153.18
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात्
MBh 5.153.19
स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः
MBh 5.153.20
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम्
MBh 5.153.21
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा
MBh 5.153.22
एवमेषां करिष्यामि निधनं कुरुनन्दन न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे
MBh 5.153.23
सेनापतिस्त्वहं राजन्समयेनापरेण ते भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि
MBh 5.153.24
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे
MBh 5.153.25
कर्ण उवाच नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना
MBh 5.153.26
वैशंपायन उवाच ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत
MBh 5.153.27
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् वादयामासुरव्यग्राः पुरुषा राजशासनात्
MBh 5.153.28
सिंहनादाश्च विविधा वाहनानां च निस्वनाः प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम्
MBh 5.153.29
निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः आसंश्च सर्वयोधानां पातयन्तो मनांस्युत
MBh 5.153.30
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम्
MBh 5.153.31
सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् तदैतान्युग्ररूपाणि अभवञ्शतशो नृप
MBh 5.153.32
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः
MBh 5.153.33
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह
MBh 5.153.34
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः शिबिरं मापयामास समे देशे नराधिपः
MBh 5.153.35
मधुरानूषरे देशे प्रभूतयवसेन्धने यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 35 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.153local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷