🪷 Mahābhārata · Udyoga-Parva · Chapter 139

The Book of the Effort · Parva 5 · 57 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 57 Shlokas

MBh 5.139.1
कर्ण उवाच असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च
MBh 5.139.2
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे
MBh 5.139.3
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत्
MBh 5.139.4
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा
MBh 5.139.5
सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन
MBh 5.139.6
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव
MBh 5.139.7
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः
MBh 5.139.8
तथा मामभिजानाति सूतश्चाधिरथः सुतम् पितरं चाभिजानामि तमहं सौहृदात्सदा
MBh 5.139.9
स हि मे जातकर्मादि कारयामास माधव शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन
MBh 5.139.10
नाम मे वसुषेणेति कारयामास वै द्विजैः भार्याश्चोढा मम प्राप्ते यौवने तेन केशव
MBh 5.139.11
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन तासु मे हृदयं कृष्ण संजातं कामबन्धनम्
MBh 5.139.12
न पृथिव्या सकलया न सुवर्णस्य राशिभिः हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे
MBh 5.139.13
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् मया त्रयोदश समा भुक्तं राज्यमकण्टकम्
MBh 5.139.14
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् आवाहाश्च विवाहाश्च सह सूतैः कृता मया
MBh 5.139.15
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः
MBh 5.139.16
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः
MBh 5.139.17
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः
MBh 5.139.18
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः
MBh 5.139.19
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः
MBh 5.139.20
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम एतदत्र हितं मन्ये सर्वयादवनन्दन
MBh 5.139.21
यदि जानाति मां राजा धर्मात्मा संशितव्रतः कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति
MBh 5.139.22
प्राप्य चापि महद्राज्यं तदहं मधुसूदन स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम
MBh 5.139.23
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः
MBh 5.139.24
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः नकुलः सहदेवश्च द्रौपदेयाश्च माधव
MBh 5.139.25
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः चैद्यश्च चेकितानश्च शिखण्डी चापराजितः
MBh 5.139.26
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः
MBh 5.139.27
मातुलो भीमसेनस्य सेनजिच्च महारथः शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन
MBh 5.139.28
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु
MBh 5.139.29
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति
MBh 5.139.30
होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति
MBh 5.139.31
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना
MBh 5.139.32
अनुयातश्च पितरमधिको वा पराक्रमे ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति
MBh 5.139.33
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे
MBh 5.139.34
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति
MBh 5.139.35
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति
MBh 5.139.36
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः
MBh 5.139.37
कल्माषदण्डा गोविन्द विमला रथशक्तयः यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन
MBh 5.139.38
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः तोमराः सोमकलशाः पवित्राणि धनूंषि च
MBh 5.139.39
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति
MBh 5.139.40
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः
MBh 5.139.41
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः
MBh 5.139.42
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः
MBh 5.139.43
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः अतिरात्रे महाबाहो वितते यज्ञकर्मणि
MBh 5.139.44
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् वैताने कर्मणि तते जातो यः कृष्ण पावकात्
MBh 5.139.45
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा
MBh 5.139.46
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति
MBh 5.139.47
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति
MBh 5.139.48
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः तदा यज्ञावसानं तद्भविष्यति जनार्दन
MBh 5.139.49
दुर्योधनं यदा हन्ता भीमसेनो महाबलः तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव
MBh 5.139.50
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य संगताः हतेश्वरा हतसुता हतनाथाश्च केशव
MBh 5.139.51
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन
MBh 5.139.52
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन
MBh 5.139.53
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव
MBh 5.139.54
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात्
MBh 5.139.55
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति
MBh 5.139.56
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम्
MBh 5.139.57
समुपानय कौन्तेयं युद्धाय मम केशव मन्त्रसंवरणं कुर्वन्नित्यमेव परंतप

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 57 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.139local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷