🪷 Mahābhārata · Udyoga-Parva · Chapter 122

The Book of the Effort · Parva 5 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 61 Shlokas

MBh 5.122.1
धृतराष्ट्र उवाच भगवन्नेवमेवैतद्यथा वदसि नारद इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम्
MBh 5.122.2
वैशंपायन उवाच एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव
MBh 5.122.3
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम
MBh 5.122.4
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन
MBh 5.122.5
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित्
MBh 5.122.6
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम समर्थं ते विशेषेण सानुबन्धस्य भारत
MBh 5.122.7
महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः
MBh 5.122.8
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे
MBh 5.122.9
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् असतां विपरीता तु लक्ष्यते भरतर्षभ
MBh 5.122.10
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान्
MBh 5.122.11
अनेकशस्त्वन्निमित्तमयशस्यं च भारत तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि
MBh 5.122.12
भ्रातॄणामथ भृत्यानां मित्राणां च परंतप अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे
MBh 5.122.13
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ
MBh 5.122.14
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः पितामहस्य द्रोणस्य विदुरस्य महामतेः
MBh 5.122.15
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः अश्वत्थाम्नो विकर्णस्य संजयस्य विशां पते
MBh 5.122.16
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप शमे शर्म भवेत्तात सर्वस्य जगतस्तथा
MBh 5.122.17
ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ
MBh 5.122.18
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत उत्तमापद्गतः सर्वः पितुः स्मरति शासनम्
MBh 5.122.19
रोचते ते पितुस्तात पाण्डवैः सह संगमः सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम्
MBh 5.122.20
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते विपाकान्ते दहत्येनं किंपाकमिव भक्षितम्
MBh 5.122.21
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते
MBh 5.122.22
यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते आत्मनो मतमुत्सृज्य स लोके सुखमेधते
MBh 5.122.23
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते शृणोति प्रतिकूलानि द्विषतां वशमेति सः
MBh 5.122.24
सतां मतमतिक्रम्य योऽसतां वर्तते मते शोचन्ते व्यसने तस्य सुहृदो नचिरादिव
MBh 5.122.25
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते स घोरामापदं प्राप्य नोत्तारमधिगच्छति
MBh 5.122.26
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत
MBh 5.122.27
स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ
MBh 5.122.28
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः
MBh 5.122.29
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः
MBh 5.122.30
मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः
MBh 5.122.31
त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः
MBh 5.122.32
त्रिवर्गयुक्ता प्राज्ञानामारम्भा भरतर्षभ धर्मार्थावनुरुध्यन्ते त्रिवर्गासंभवे नराः
MBh 5.122.33
पृथक्तु विनिविष्टानां धर्मं धीरोऽनुरुध्यते मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते
MBh 5.122.34
इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः कामार्थावनुपायेन लिप्समानो विनश्यति
MBh 5.122.35
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् न हि धर्मादपैत्यर्थः कामो वापि कदाचन
MBh 5.122.36
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते
MBh 5.122.37
स त्वं तातानुपायेन लिप्ससे भरतर्षभ आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु
MBh 5.122.38
आत्मानं तक्षति ह्येष वनं परशुना यथा यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते
MBh 5.122.39
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः
MBh 5.122.40
त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत अप्यन्यं प्राकृतं किंचित्किमु तान्पाण्डवर्षभान्
MBh 5.122.41
अमर्षवशमापन्नो न किंचिद्बुध्यते नरः छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत
MBh 5.122.42
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह संगमः तैर्हि संप्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि
MBh 5.122.43
पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः
MBh 5.122.44
दुःशासने दुर्विषहे कर्णे चापि ससौबले एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत
MBh 5.122.45
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत
MBh 5.122.46
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे
MBh 5.122.47
इदं संनिहितं तात समग्रं पार्थिवं बलम् अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः
MBh 5.122.48
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः अशक्ताः सर्व एवैते प्रतियोद्धुं धनंजयम्
MBh 5.122.49
अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः
MBh 5.122.50
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान्
MBh 5.122.51
किं ते जनक्षयेणेह कृतेन भरतर्षभ यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम्
MBh 5.122.52
यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः
MBh 5.122.53
तथा विराटनगरे श्रूयते महदद्भुतम् एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्
MBh 5.122.54
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् आशंससीह समरे वीरमर्जुनमूर्जितम्
MBh 5.122.55
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः
MBh 5.122.56
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत्
MBh 5.122.57
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा त्वत्कृते न विनश्येयुरेते भरतसत्तम
MBh 5.122.58
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप
MBh 5.122.59
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम्
MBh 5.122.60
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि
MBh 5.122.61
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 61 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 5.122local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷