🪷 Mahābhārata · Udyoga-Parva · Chapter 12
The Book of the Effort · Parva 5 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 32 Shlokas
MBh 5.12.1
शल्य उवाच
क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः
अब्रुवन्देवराजानं नहुषं घोरदर्शनम्
MBh 5.12.2
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो
त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम्
MBh 5.12.3
जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर
MBh 5.12.4
निवर्तय मनः पापात्परदाराभिमर्शनात्
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय
MBh 5.12.5
एवमुक्तो न जग्राह तद्वचः काममोहितः
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः
MBh 5.12.6
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः
MBh 5.12.7
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः
MBh 5.12.8
उपतिष्ठतु मां देवी एतदस्या हितं परम्
युष्माकं च सदा देवाः शिवमेवं भविष्यति
MBh 5.12.9
देवा ऊचुः
इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर
MBh 5.12.10
शल्य उवाच
इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः
MBh 5.12.11
जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम
MBh 5.12.12
ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम्
MBh 5.12.13
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः
वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी
MBh 5.12.14
एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम्
उवाच रुदती दीना बृहस्पतिमिदं वचः
MBh 5.12.15
नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम्
शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात्
MBh 5.12.16
बृहस्पतिरुवाच
शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम्
धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते
MBh 5.12.17
नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम्
MBh 5.12.18
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम्
MBh 5.12.19
न तस्य बीजं रोहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले
भीतं प्रपन्नं प्रददाति शत्रवे; न सोऽन्तरं लभते त्राणमिच्छन्
MBh 5.12.20
मोघमन्नं विन्दति चाप्यचेताः; स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः
भीतं प्रपन्नं प्रददाति यो वै; न तस्य हव्यं प्रतिगृह्णन्ति देवाः
MBh 5.12.21
प्रमीयते चास्य प्रजा ह्यकाले; सदा विवासं पितरोऽस्य कुर्वते
भीतं प्रपन्नं प्रददाति शत्रवे; सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्
MBh 5.12.22
एतदेवं विजानन्वै न दास्यामि शचीमिमाम्
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम्
MBh 5.12.23
अस्या हितं भवेद्यच्च मम चापि हितं भवेत्
क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम्
MBh 5.12.24
शल्य उवाच
अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम्
कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते
MBh 5.12.25
बृहस्पतिरुवाच
नहुषं याचतां देवी किंचित्कालान्तरं शुभा
इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति
MBh 5.12.26
बहुविघ्नकरः कालः कालः कालं नयिष्यति
दर्पितो बलवांश्चापि नहुषो वरसंश्रयात्
MBh 5.12.27
शल्य उवाच
ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन्
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम्
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम्
MBh 5.12.28
ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया
MBh 5.12.29
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम्
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति
MBh 5.12.30
क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति
MBh 5.12.31
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम्
MBh 5.12.32
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम्
समहृष्यत दुष्टात्मा कामोपहतचेतनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Udyoga-Parva chapter-index (197 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Udyoga-Parva Ch 11
- Next chapter · Udyoga-Parva Ch 13 →
Sources and Connected Readings
Continue from these 32 source-pinned Devanāgarī addresses to Udyoga-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 5.12local chapter route · Udyoga-ParvaUdyoga-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷