🪷 Mahābhārata · Svargārohaṇa-Parva · Chapter 5

The Book of the Ascent to Heaven · Parva 18 · 54 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 54 Shlokas

MBh 18.5.1
जनमेजय उवाच भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा
MBh 18.5.2
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः
MBh 18.5.3
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः
MBh 18.5.4
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे
MBh 18.5.5
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज
MBh 18.5.6
सूत उवाच इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे
MBh 18.5.7
वैशंपायन उवाच गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप शृणु गुह्यमिदं राजन्देवानां भरतर्षभ यदुवाच महातेजा दिव्यचक्षुः प्रतापवान्
MBh 18.5.8
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम्
MBh 18.5.9
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ
MBh 18.5.10
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम्
MBh 18.5.11
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान्
MBh 18.5.12
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ
MBh 18.5.13
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः
MBh 18.5.14
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान्
MBh 18.5.15
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवः विश्वेषां देवतानां ते विविशुर्नरसत्तमाः
MBh 18.5.16
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत्
MBh 18.5.17
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः
MBh 18.5.18
आविवेश रविं कर्णः पितरं पुरुषर्षभ द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्
MBh 18.5.19
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः
MBh 18.5.20
अनन्तो भगवान्देवः प्रविवेश रसातलम् पितामहनियोगाद्धि यो योगाद्गामधारयत्
MBh 18.5.21
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः न्यमज्जन्त सरस्वत्यां कालेन जनमेजय ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन्
MBh 18.5.22
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे
MBh 18.5.23
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान्
MBh 18.5.24
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः
MBh 18.5.25
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत
MBh 18.5.26
सूत उवाच एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ
MBh 18.5.27
ततः समापयामासुः कर्म तत्तस्य याजकाः आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान्
MBh 18.5.28
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम्
MBh 18.5.29
विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम्
MBh 18.5.30
एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह
MBh 18.5.31
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् कृष्णेन मुनिना विप्र नियतं सत्यवादिना
MBh 18.5.32
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता अतीन्द्रियेण शुचिना तपसा भावितात्मना
MBh 18.5.33
ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा
MBh 18.5.34
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्
MBh 18.5.35
य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति
MBh 18.5.36
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते
MBh 18.5.37
अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते
MBh 18.5.38
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्
MBh 18.5.39
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता
MBh 18.5.40
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम्
MBh 18.5.41
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया
MBh 18.5.42
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु
MBh 18.5.43
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः
MBh 18.5.44
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः
MBh 18.5.45
भारताध्ययनात्पुण्यादपि पादमधीयतः श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः
MBh 18.5.46
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम्
MBh 18.5.47
मातापितृसहस्राणि पुत्रदारशतानि च संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे
MBh 18.5.48
हर्षस्थानसहस्राणि भयस्थानशतानि च दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
MBh 18.5.49
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते
MBh 18.5.50
न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोः नित्यो धर्मः सुखदुःखे त्वनित्ये; जीवो नित्यो हेतुरस्य त्वनित्यः
MBh 18.5.51
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् स भारतफलं प्राप्य परं ब्रह्माधिगच्छति
MBh 18.5.52
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते
MBh 18.5.53
महाभारतमाख्यानं यः पठेत्सुसमाहितः स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः
MBh 18.5.54
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 54 source-pinned Devanāgarī addresses to Svargārohaṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 18.5local chapter route · Svargārohaṇa-ParvaSvargārohaṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷