🪷 Mahābhārata · Strī-Parva · Chapter 5

The Book of the Women · Parva 11 · 22 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 22 Shlokas

MBh 11.5.1
धृतराष्ट्र उवाच यदिदं धर्मगहनं बुद्ध्या समनुगम्यते एतद्विस्तरशः सर्वं बुद्धिमार्गं प्रशंस मे
MBh 11.5.2
विदुर उवाच अत्र ते वर्तयिष्यामि नमस्कृत्वा स्वयंभुवे यथा संसारगहनं वदन्ति परमर्षयः
MBh 11.5.3
कश्चिन्महति संसारे वर्तमानो द्विजः किल वनं दुर्गमनुप्राप्तो महत्क्रव्यादसंकुलम्
MBh 11.5.4
सिंहव्याघ्रगजाकारैरतिघोरैर्महाशनैः समन्तात्संपरिक्षिप्तं मृत्योरपि भयप्रदम्
MBh 11.5.5
तदस्य दृष्ट्वा हृदयमुद्वेगमगमत्परम् अभ्युच्छ्रयश्च रोम्णां वै विक्रियाश्च परंतप
MBh 11.5.6
स तद्वनं व्यनुसरन्विप्रधावनितस्ततः वीक्षमाणो दिशः सर्वाः शरणं क्व भवेदिति
MBh 11.5.7
स तेषां छिद्रमन्विच्छन्प्रद्रुतो भयपीडितः न च निर्याति वै दूरं न च तैर्विप्रयुज्यते
MBh 11.5.8
अथापश्यद्वनं घोरं समन्ताद्वागुरावृतम् बाहुभ्यां संपरिष्वक्तं स्त्रिया परमघोरया
MBh 11.5.9
पञ्चशीर्षधरैर्नागैः शैलैरिव समुन्नतैः नभःस्पृशैर्महावृक्षैः परिक्षिप्तं महावनम्
MBh 11.5.10
वनमध्ये च तत्राभूदुदपानः समावृतः वल्लीभिस्तृणछन्नाभिर्गूढाभिरभिसंवृतः
MBh 11.5.11
पपात स द्विजस्तत्र निगूढे सलिलाशये विलग्नश्चाभवत्तस्मिँल्लतासंतानसंकटे
MBh 11.5.12
पनसस्य यथा जातं वृन्तबद्धं महाफलम् स तथा लम्बते तत्र ऊर्ध्वपादो ह्यधःशिराः
MBh 11.5.13
अथ तत्रापि चान्योऽस्य भूयो जात उपद्रवः कूपवीनाहवेलायामपश्यत महागजम्
MBh 11.5.14
षड्वक्त्रं कृष्णशबलं द्विषट्कपदचारिणम् क्रमेण परिसर्पन्तं वल्लीवृक्षसमावृतम्
MBh 11.5.15
तस्य चापि प्रशाखासु वृक्षशाखावलम्बिनः नानारूपा मधुकरा घोररूपा भयावहाः आसते मधु संभृत्य पूर्वमेव निकेतजाः
MBh 11.5.16
भूयो भूयः समीहन्ते मधूनि भरतर्षभ स्वादनीयानि भूतानां न यैर्बालोऽपि तृप्यते
MBh 11.5.17
तेषां मधूनां बहुधा धारा प्रस्रवते सदा तां लम्बमानः स पुमान्धारां पिबति सर्वदा न चास्य तृष्णा विरता पिबमानस्य संकटे
MBh 11.5.18
अभीप्सति च तां नित्यमतृप्तः स पुनः पुनः न चास्य जीविते राजन्निर्वेदः समजायत
MBh 11.5.19
तत्रैव च मनुष्यस्य जीविताशा प्रतिष्ठिता कृष्णाः श्वेताश्च तं वृक्षं कुट्टयन्ति स्म मूषकाः
MBh 11.5.20
व्यालैश्च वनदुर्गान्ते स्त्रिया च परमोग्रया कूपाधस्ताच्च नागेन वीनाहे कुञ्जरेण च
MBh 11.5.21
वृक्षप्रपाताच्च भयं मूषकेभ्यश्च पञ्चमम् मधुलोभान्मधुकरैः षष्ठमाहुर्महद्भयम्
MBh 11.5.22
एवं स वसते तत्र क्षिप्तः संसारसागरे न चैव जीविताशायां निर्वेदमुपगच्छति

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 22 source-pinned Devanāgarī addresses to Strī-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 11.5local chapter route · Strī-ParvaStrī-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷