🪷 Mahābhārata · Śānti-Parva · Chapter 94

The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 12.94.1
वामदेव उवाच यत्राधर्मं प्रणयते दुर्बले बलवत्तरः तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः
MBh 12.94.2
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति
MBh 12.94.3
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते
MBh 12.94.4
साहसप्रकृतिर्यत्र कुरुते किंचिदुल्बणम् अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति
MBh 12.94.5
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते जितानामजितानां च क्षत्रधर्मादपैति सः
MBh 12.94.6
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः
MBh 12.94.7
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि प्रियो भवति भूतानां न च विभ्रश्यते श्रियः
MBh 12.94.8
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत्
MBh 12.94.9
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्
MBh 12.94.10
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् न त्वरेत न चासूयेत्तथा संगृह्यते परः
MBh 12.94.11
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन्
MBh 12.94.12
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया
MBh 12.94.13
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह
MBh 12.94.14
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि
MBh 12.94.15
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि
MBh 12.94.16
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम्
MBh 12.94.17
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः
MBh 12.94.18
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते
MBh 12.94.19
ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते
MBh 12.94.20
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः
MBh 12.94.21
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः अबलानभियुञ्जीत न तु ये बलवत्तराः
MBh 12.94.22
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् आहवे निधनं कुर्याद्राजा धर्मपरायणः
MBh 12.94.23
मरणान्तमिदं सर्वं नेह किंचिदनामयम् तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत्
MBh 12.94.24
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही
MBh 12.94.25
एतानि यस्य गुप्तानि स राजा राजसत्तम सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम्
MBh 12.94.26
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम्
MBh 12.94.27
दातारं संविभक्तारं मार्दवोपगतं शुचिम् असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम्
MBh 12.94.28
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते
MBh 12.94.29
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते शृणोति प्रतिकूलानि विमना नचिरादिव
MBh 12.94.30
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते जितानामजितानां च क्षत्रधर्मादपैति सः
MBh 12.94.31
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् स वै व्यसनमासाद्य गाधमार्तो न विन्दति
MBh 12.94.32
यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके
MBh 12.94.33
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति
MBh 12.94.34
नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत् प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि
MBh 12.94.35
के मानुरक्ता राजानः के भयात्समुपाश्रिताः मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत्
MBh 12.94.36
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः
MBh 12.94.37
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात्
MBh 12.94.38
एतां राजोपनिषदं ययातिः स्माह नाहुषः मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.94local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷