🪷 Mahābhārata · Śānti-Parva · Chapter 73

The Book of Peace · the great dharma-śāstra · Parva 12 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 12.73.1
भीष्म उवाच य एव तु सतो रक्षेदसतश्च निबर्हयेत् स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः
MBh 12.73.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् पुरूरवस ऐलस्य संवादं मातरिश्वनः
MBh 12.73.3
ऐल उवाच कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे
MBh 12.73.4
वायुरुवाच ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते
MBh 12.73.5
वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः
MBh 12.73.6
ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये
MBh 12.73.7
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये
MBh 12.73.8
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम्
MBh 12.73.9
ऐल उवाच द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे
MBh 12.73.10
वायुरुवाच विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम् ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः
MBh 12.73.11
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः
MBh 12.73.12
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम्
MBh 12.73.13
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि
MBh 12.73.14
यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने
MBh 12.73.15
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया
MBh 12.73.16
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्
MBh 12.73.17
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः
MBh 12.73.18
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः
MBh 12.73.19
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः
MBh 12.73.20
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति
MBh 12.73.21
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके
MBh 12.73.22
इतो दत्तेन जीवन्ति देवताः पितरस्तथा राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः
MBh 12.73.23
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति
MBh 12.73.24
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः तेषु भोगेषु सर्वेषु नभीतो लभते सुखम्
MBh 12.73.25
अभयस्यैव यो दाता तस्यैव सुमहत्फलम् न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते
MBh 12.73.26
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.73local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷